________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कालवैधर्म्यम
१२६
5
तथा * तदनुविधानात् पृथक्त्वम् * इति । तेनैकत्वेनानुविधानं साहचर्यात्, यत्र ह्येकत्वं तत्रावश्यमेकपृथक्त्वं भविष्यतीति । न चैवं परिमाणविशेषेण साहचर्यमस्तीति ज्ञानार्थं क्रमातिक्रमेण पृथक्त्वनिरूपणमिति ।
तथा * कारणे काल इति वचनात् परममहत् परिमाणम् इति । "युगपदादिप्रत्ययानां कारणे कालाख्या" इति (वै. सू. ७/११२५) सूत्रं दर्शयति । तथाहि, युगपदादि- प्रत्ययानां कारणे काल इत्याख्या संज्ञेति । ते च प्रत्ययाः सर्वत्र भवन्तीति व्यापकत्वं कालस्य । तस्माच्च परममहत्त्वमिति । यद् वा अणुपरिमाणानधिकरणत्वे सति नित्यद्रव्यत्वात् परममहत्त्वमिति पूर्ववद् वाच्यम् ।
तथा * कारणपरत्वादिवचनात् संयोगः - इति । "कारणपरत्वात् कारणापरत्वाच्च कार्ये परस्वापरत्वे" (वै. सू. ७।२।२२) इति सूत्रं दर्शयति । कारणपरत्वं हि कालपिण्डसंयोगः परत्वोत्पादकत्वादुपचारेण विवक्षित इति वक्ष्यामः परत्वपरीक्षायाम् ।
10
* तद्विनाशकत्वाद् विभागः * इति । तस्य हि संयोगस्य कृतकत्वादवश्यं विनाशेन भवितव्यम् । स च सर्वत्राश्रयविनाशाभावाद् विभागादेव' विनश्यतीति विभागः सिद्ध इति ।
अथ कालस्य कथं द्रव्यत्वं नित्यत्वञ्चेत्याह - तस्याकाशवद् द्रव्यत्वनित्यत्वे 15 सिद्धे * इति । तथा हि गुणवत्त्वादनाश्रितत्वाच्च द्रव्यं कालः। समानासमानजातीयकारणासम्भवाच्चाकार्यत्वेन नित्य इत्यतिदेशार्थः ।
ननु चात्र कालस्यकतायां वर्तमानादिव्यवहारः कथं स्यादित्याह* काललिङ्गाविशेषादजसैकत्वेऽपि इत्यादि । यद्यपि काललिङ्गाविशेषादञ्जसा मुख्यया वृत्त्यैकत्वं सिद्धं तथापि सर्वकार्याणां प्रारम्भश्च क्रियाभिनिर्वृत्तिश्च स्थितिश्च 20 निरोधश्चेति तथोक्तास्त एवोपाधयः, तभेदान्नानात्वमिति। तथा च प्रारम्भक्रियोपलक्षितोऽनागतः कालः । अभिनिर्वृत्तिरात्मलाभस्तदुपलक्षितश्च वर्तमानः । तथा स्थितिः क्रमभाव्यनेककार्यकर्त्तत्वं तदुपलशितोऽपि वर्तमान एव । तस्य यावद् वस्तुसद्भावव्याप्यत्वाद् यावद् विवर्तते वस्तु तावद् वर्तमान इति । तथा निरोधो विनाशस्तदुपलक्षितश्चातीत इति
For Private And Personal Use Only