________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
१२८
व्योमवती
अथायं व्यपदेशः संयुक्तसमवायाद् भविष्यतीति । न । अभावे तदभावप्रसङ्गात् । अतः कार्यकारणभाव एव सम्बन्धोऽभ्युपेयः, तस्य हि व्यापकत्वादिति । तथा नियतकाले कुसुमादेः कार्यस्योपलम्भो न कालान्तरे इत्यन्वयव्यतिरेकाभ्यां तस्य' कारणत्वं विज्ञायते । तथा हि वसन्तसमय एव पाटलादिकुसुमानानुद्गमो न कालान्तरे इत्येवं कार्यान्तरेष्व यूह्य न्। तथा 'प्रसवकालमपेक्षते' इति व्यवहारात् कारणत्वं कालस्य । तथाहि, सहकारिणमपेक्ष्योपलब्धः। कालस्य सहकारितामन्तरेण 'प्रसूतौ' अयं व्यवहारो न स्यात् ।
तथा न परं युगपदादिप्रत्ययहेतु: * क्षगलवनिमेषकाष्ठाकला मुहूर्तयामाहोरात्रा र्धमासमासर्वयनसंवत्सरयुगकल्पमन्वन्तरप्रलयमहाप्रलयव्यवहारहेतुः * इति। तथाहि, 10 परमाणोश्चावरुद्धनभोदेशत्यागोपलक्षितः काल: क्षणः ।
"तद् द्वयं लव इत्युक्तो निमेषश्च लवद्वयम् । काष्ठा निमेषाः पञ्चदश चेह प्रकीर्तिताः ।।
त्रिंशत् काष्ठाः कला प्रोक्ता कला: त्रिशन्मुहूर्त्तकः ।" (पुराणम् ) इत्येवं मासादेरपि लक्षणं प्रसिद्धं ग्राह्यम् ।
स चायं क्षणादिव्यवहारो विशिष्टत्वाद् विशिष्टं निमित्तमाक्षिपति । न चान्यनिमित्तं सम्भवतीति, क्रियादेः प्रतिषेधाद् इति कालसद्भावसिद्धिः । तस्य समवायित्वगुणवत्त्वप्रतिपादनार्थं * तस्य' गुणाः संख्यापरिमाणपृथक्त्वसंयोगविभागाः ॐ इति वाक्यम् । अत्र केषाञ्चिदुत्पत्तौ समवायिकारणम्, एतैगुणैर्गुणवान् काल इति ।
अथ द्रव्यत्वादेव संख्यासद्भावसिद्धौ किमेकोऽनेको वेति संशयस्तन्निरासायाह * काललिङ्गाविशेषादेकत्वं सिद्धम् * इति। कालस्य' यल्लिङ्गं युगपदादिप्रत्ययरूपं तद्विशिष्टमिति नानात्वाप्रतिपादकम् । ननु चासिद्धमेतत्, युगपदादिप्रत्ययानां परस्पर विशिष्टत्वात् । न च कार्यवैलक्षण्यं कारणवैलक्षण्यं विना भवतीति, नानात्वमेव न्याय्यम् । सत्यम् । कार्यवैलक्षण्याद् विज्ञायत एव सामग्रीवैलक्षण्यम्। तच्च सहकार्यन्तरानुप्रवेशेनापि घटत इति कथं कालस्य नानात्वम् । उक्तञ्चात्र विशिष्टक्रियोपचितस्य विशिष्टप्रत्ययजनकत्वमिति । न चैवं परमाणूनां चातुर्विध्यं व्याहन्यत इति पूर्ववद वाच्यम् । तदेवं नानात्वे प्रमाणाभावाद् द्रव्यस्य च संख्येयत्वादित्येकत्वं सिद्धम् ।
For Private And Personal Use Only