SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२७ कालौधर्म्यम् नाप्यभेदोपचाराद् विशेषणविशेष्यभावः, 'पुरुषे दण्डः' इति ज्ञानानुपपत्तेः । अथ विशेषणं विशेष्यञ्च सम्बन्धं लौकिकी स्थितिम् । गृहीत्वा सङ्कलय्येव तथा प्रत्येति नान्यथा ॥ (?) इति सङ्कलनाज्ञानमिति चेत्, नैतद् युक्तम्। एतावतो ज्ञानकलापस्य सद्भावे प्रमाणाभावात् । तथा हि परं विशेष्यज्ञानमुत्पद्यमानं दृष्टम् । तच्चान्यथा न घटत इति विशेषणेऽपि ज्ञानं लुप्तम् । न पुनर्ज्ञानान्तरसद्भावे प्रमाणमस्तीति । न चेदं निविषयं कल्पनाज्ञानम्, अर्थान्वयव्यतिरेकानुविधानात्, बाधकानुपपत्तेश्च । । तदेवं गृहीतस्य विशेषणस्य विशेष्यज्ञानजनकत्वात् लिङ्गादिव्यापारानुपलब्धेश्च प्रत्यक्षत्वं कालस्येति। सत्यम् । तथैकज्ञानालम्बनत्वेऽपि युगपदादिप्रत्यया न कालस्य 10 लिङ्गम्, तस्यापि विशेषणतयालम्बनत्वात् । अमीषाञ्चेन्द्रियानुविधानेन प्रत्यक्षफलत्वादित्यलम्। सर्वकार्याणामुत्पत्तौ कारणत्वं प्रतिज्ञातमाह * सर्वकार्याणाञ्चोत्पत्तिस्थितिविनाशहेतु: * इति । उत्पत्तिरात्मलाभो भावानाम् । स्थितिः क्रमभाव्यनेककार्यकर्तृत्वम्। विनाशः प्रध्वंसः। तेषां कारणमिति । अत्र तु यद्यपि सर्वकार्याणां हेतुरित्युक्ते सर्वमेतल्लभ्यते तथाप्यवान्तरविशेषापेक्षया भेदकथनम्। अथ तेषां हेतुः काल इति कथं ज्ञायत इत्याह तद्व्यपदेशात् इति । तथा हत्पत्ती कालेन व्यपदेशो 'मध्याह्न उत्पन्नोऽपराले उत्पन्नः' इति । स्थिती च 'मध्याह्न यावत् स्थितोऽपराह्मञ्च' इति । विनाशे तु 'प्रातविनष्टो वर्षान्ते विनष्टः इत्यादि । कारणेन तु कार्यस्य व्यपदेशो यथा 'चाक्षुषं विज्ञानम्, मानसं विज्ञानम् इति। अथाकारणेनापि व्यपदेशः सम्भवत्येव, 'मूर्ताः परमाणवः' 'दण्डी पुरुषः' इति । सत्यम । तथापि सम्बन्धे सति व्यपदेशोपलब्धः। न चान्यः सम्बन्धोऽत्र सम्भवतीति कार्यकारणभावो ज्ञायते । अथास्ति संयोग: ? न । गुणकर्मादेरव्यपदेश्यताप्रसङ्गात् । अस्ति च तत्रापि व्यपदेशः 'पूर्वाहे शब्दस्तथोत्क्षेपणम्' इत्यादि । 1 For Private And Personal Use Only
SR No.020943
Book TitleVyomvati Part 01
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy