________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२६
व्योमवती
योर्यदि व्यापारापेक्षया विशेषणवृत्तित्वमिष्येत, विशेष्यसम्बन्ध विना अभावसमवाययोग्रहणं स्यात् । यत्र हि तयोर्वृत्तिस्तत्रैव ग्रहणजनकत्वोपलब्धेः । अदृष्टस्य त्वात्मसमवेतस्यापि सकलकार्योत्पत्तौ साधारणत्वात्, संयोगादिसद्भावे तदभावे च केवलस्य व्यापारोऽभ्युपगम्यत एव। स चोभयत्र व्यापारापेक्षया सम्बद्ध इव सम्बद्धो न परमार्थतः।
न चोपचरितस्येन्द्रियासहकारित्वम्, अपरोक्षज्ञानस्यान्यथासम्भवेन तद्भावसिद्धेः। दृष्टञ्च श्रोत्रान्योपचरितस्यापि शब्दज्ञानसहकारित्वमिति । यच्चेदं 'सुरभि द्रव्यम्' इत्याद्यनुसन्धानज्ञानमित्युक्तम्, तदसत् । अन्यत्राप्येवं प्रसङ्गात् । न चात्र विभिन्नज्ञानालम्बनत्वे किञ्चिद् बाधकमस्तीति तदेवाभ्युपेयम् ।
नापि 'दण्डिनमहमद्राक्षम्' इति स्मरणानुपपत्तिः, विशेषणज्ञानजनितसंस्कारस्य विशेष्यज्ञानसहकारिणः संस्कारारम्भेणापि तद्भावात् ।
यच्चेदमेकज्ञानालम्बनत्वेऽपि विशेष्यस्य प्राधान्यात् क्रियासम्बन्धः, सामानाधिकरण्यञ्च घटत इति। तन्न। प्राधान्यस्यैव विचार्यत्वात् । एकज्ञानालम्बनतायां हि कि
कृतं प्राधान्यामिति चिन्त्यम् । सामानाधिकरण्यन्त्वेकज्ञानालम्बनत्वाविशेष पुरुषप्रत्ययेन 15 न च दण्डप्रत्ययेनेति विशेषणहेत्वभावः ।
अथ विभिन्नविशेषणनिमित्तयोरेकस्मिन्नर्थे वृत्तेः सामानाधिकरण्यम्, दण्डीति प्रत्यये दण्डो विशेषणं पुरुषे इति । न चैवं दण्डस्य' विशेषणत्वेऽन्यद् विशेषणमस्तीति सामानाधिकरण्यम् । नैतदेवम् । अनेकस्य' प्रमेयस्य प्रतिभासाभ्युपगमात् । तथा हि 'न दण्डी' इति ज्ञाने दण्डत्वाद्यपि प्रमेयं प्रतिभासत' इत्यभ्युपगमे कथं न सामानाधिकरण्यम्, तथा सूत्रव्याघातश्च “समवायिनः श्वैत्याच्छ्वत्यबुद्धेः श्वेते बुद्धिस्तत्कार्यकारणभूते" (वै. सू. ८।१।६ ) कार्यकारणस्वभावे इति ।
___ न पुनर्भूताभिधानमुपमायां मुख्य बाधकानुपपत्तेः। नापि प्रमेयाविशेषादेव प्रत्ययविशेषः, सहकारिवलक्षण्येनापि भावात् ।
नन्वेवं तहि विशेषणवत् सम्बन्धेऽपि ज्ञानं कल्पनीयम्। तत्र तदनुरागस्याप्रतिभासेन चक्षुरादिवद् अगृहीतस्यापि व्यापाराभ्युपगमात् ।
For Private And Personal Use Only