________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कालवधर्म्यम्
१२५
अन्ये त्वेकज्ञानालम्बनत्वे विशेषणविशेष्यभावो न स्यात्, तयोः करणकर्मरूपत्वादिति मन्यन्ते। तथाहि विशिष्यतेऽनेनेति विशेषणं करणम् । विशेष्यत इति विशेष्यं कर्म। तच्चैकज्ञानालम्बनतायां न स्यादुभयोः कर्मत्वादिति । नाप्यज्ञातव्यापारे सहकारित्वाविशेषाच्चक्षुरादिभ्यो विशेषः स्यादिति तज्ज्ञानं कल्प्यते । यदि च दण्डत्वविशिष्टो दण्डः पुरुषस्य विशेषणमिष्येत तस्याप्यन्य- 5 दित्यनवस्था। दण्डश्चेद् दण्डत्वस्थ विशेषणमितरेतराश्रयत्वञ्च स्यादिति विशेष्यज्ञानाभावप्रसङ्गः। अस्ति च विशेष्यज्ञानमिति तदन्यथानुपपत्त्या विशेषणज्ञानमात्रं ज्ञायते ।
यच्चेदं विशेष्यज्ञान मुत्पत्तेः पूर्वं विशेषणस्य [न तद् ] रूपतां दर्शयतीत्युक्तम्, तत्र केयं विशेषणरूपतेति विचार्यम्। न हि दण्डे दण्डत्वादिवद् विशेषणरूपता प्रतिभाति । 10 अथ स्वानुरक्तप्रत्ययजनकत्वं विशेषणत्वम्, तच्च यदि स्वालम्बनज्ञानसहितस्य विशेष्यज्ञानजनकत्वम्, अभ्युपगमव्याघातः । न चैकविज्ञानालम्बनत्वेऽनुरागार्थं पश्यामः, तच्छब्दाभिलप्यत्वादेः प्रतिषेधात् । नापि क्रमो विशेषणविशेष्यभावहेतुरनभ्युपगमात् । विशेष्यज्ञानन्तु विशेषणज्ञानं दर्शयत्येवान्यथा हि तविशिष्टत्वायोगात् । यच्चेदमनुमानादप्रतिपत्तेः प्रत्यक्षफलकत्वमिति। तच्चासत् । बाधकसद्भावेन अत्रैक- 15 ज्ञानालम्बनत्वाभ्युपगमात् । न चैवं सर्वत्र बाधकमस्तीति ।
अन्ये तु धूमोपलम्मानन्तरमग्न्यनुमाने सत्यग्निमानयं पर्वत इति ज्ञानं प्रत्यक्षमेवेति ब्रुवते, अन्यथा हि 'अयम्' इत्यपरोक्षतानिर्देशो न स्यात् । अत्र च साध्यधर्मविशिष्टधर्मिणः साध्यत्वे कथमेतत् साधनं स्यादिति वाच्यम्।
यच्चेदं विशेषणविशेष्यभावः किमेकोऽनेको वेति, तत्रैकत्वाभ्युपगमेऽपि न ११ विशेषणविशेष्ययोरव्यवस्था, निमित्तान्तरस्यासाधारणस्य सद्भावात् । तथा हि विशेषणं स्वानुरक्तप्रत्ययोत्पादकत्वेनेत्युक्तम्, विशेष्यन्तु विशेष्यज्ञानविषयत्वेन, विशेषणविशेष्यभावस्तु परं विशेष्यज्ञानोत्पत्ती सहकारी, न पुनर्व्यवस्थाकारणमिति ।
न च संयोगसमवायावेव विशेषणविशेष्यभावः, तयोः समवायेऽभावे चाभावात् । अत्रापि विशेष्येन्द्रियसम्बन्धोऽस्तीति चेत्, न । तस्य विशेषणावृत्तित्वात् । नाप्यदृष्टवद् 25 व्यापारापेक्षया तवृत्तित्वम्, संयोगसमवाययोरन्यत्रानुपलब्धः । तथा हि संयोगसमवाय
For Private And Personal Use Only