________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२४
व्योमवती
अथैकश्चायं विशेषणविशेष्यभावो न धर्मपदार्थान्तर्गतः, ततद्व्यतिरेकप्रतिषेधात् । नापि द्रव्यादिपदार्यान्तर्गतः, षट्पलम्मा दिति । न हि द्रव्यादीनामन्यतमः षट्सपलभ्यत इति ।
अथ विशिष्टप्रत्ययहेतुरदृष्टो विशेषणविशेष्यभाव इति चेत् । तस्य चैकतायामिदं विशेषणमिदं विशेष्यमिति व्यवस्थानुपपत्तिः, विशेषणविशेष्यत्वस्यैकत्वादिति । तथा हि यदेव विशेषणत्वं तदेव विशेष्यत्वमित्येकस्य पुरुषस्यैकस्मिन्नेव काले तदेव विशेषणं विशेष्यञ्चेति स्यात् । न चैतदस्ति । तस्माद् विशिष्टादृष्टो न विशेषणविशेष्यभावः । अथ नैको दृष्टो विशेषणविशेष्यप्रतिनियतः ? तथापि विशेषणविशेष्ययोर्भावो न स्यात् ।
अतो यथासम्भवं विशेषणविशेष्यभावो ग्राह्यः, क्वचित् संयोगः, क्वचित् समवाय इति । तथा चाभावेऽपि विशेषचक्षुरादिसम्बन्ध एव विशेषणविशेष्यभावः, तेन सता च विशिष्टप्रत्ययजननात् । न चादृष्टस्यात्र कारणत्वं निषिध्यते, सकलकार्येषु साधारणत्वात् । नाप्यदृष्टो दृष्टकारणं प्रत्याचष्टे, शरीरादेरप्यभावप्रसङ्गात् । तथाहि सुखादि
सम्पादकोऽदृष्ट एवास्त्वलं शरीरादिपरिकल्पनयेति । अथादृष्टसद्भावेऽपि शरीरादयो 15 दृष्टत्वादभ्युपगम्यन्ते, तर्हि विशेष्यचक्षुरादिसम्बन्ध एव दृष्टत्वाद् विशेषणविशेष्यभावोऽभ्युपगन्तव्यः।
अथ विशेषणे तस्यावृत्तेः कथं तद्भाव इति चेत्, न । अदृष्टव व्यापारापेक्षया तद्वृत्तित्वात् । अथैकज्ञानालम्बनत्वे 'सुरभि द्रव्यम्' इति विभिन्नेन्द्रियग्राह्ययोविशेषणविशेष्यभावो न स्यात् । न हि विभिन्नेन्द्रियाभ्यामेक विज्ञानं सम्पाद्यं दृष्टमिति । न। विशेषणविशेष्ययोविभिन्नज्ञानालम्बनत्वे बाधकोपपत्तेरनुसन्धानज्ञानमेतत् । तथा हि प्राणेन गन्धमुपलभ्य चक्षुषा स्पर्शनेन वा द्रव्यं पश्चान्मनसानुसंधत्ते ‘सुरभि द्रव्यम्' इति । न च सर्वं विशेष्यज्ञानमनुसन्धानज्ञानमिति वाच्यम्, तत्र हि बाधकानुपपत्तेः । तथा विशेषणविशेष्ययोविभिन्नज्ञानालम्बनतायाम् एकदण्डिनमहमद्राक्षम्' इति स्मरणं न स्यात्, तस्य हि अनुभवरूपत्वात् ।
अथ पुरुषप्रत्ययसामानाधिकरण्याइ 'दण्डिनमानय' इत्यादिप्रयोगेषु पुरुषस्यैकक्रियासम्बन्धात् तदालम्बनमेव विशेष्यज्ञानमिति चेत्, न। पुरुषस्य विशेष्यतया प्राधान्यात् क्रियासम्बन्धः सामानाधिकरण्यञ्चोपपद्यत एवेत्यलमतिविस्तरेण ।
For Private And Personal Use Only