________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कालवैधर्म्यम्
आकारवादप्रतिषेधात् । नापि विशेषणशब्दाभिलप्यं विशेष्ये ज्ञानं सम्भवति, पुरुष दण्ड इति ज्ञानानुत्पत्तेः ।
अथ दण्डस्यातिशयाधायकत्वानुपपत्तेर्विशेषणत्वाभाव इति चेत्, न । विशिष्टज्ञानजनकत्वेनास्यैवातिशयत्वात् । तज्ज्ञानञ्चातिशयः, तत्सद्भावे कार्यसद्भावात् ।
अथ विशेषणविशेष्ययोर्विभिन्नज्ञानालम्बनत्वे न प्रमाणमस्तीति चेत् । तथाहि, विशेष्यज्ञानमुत्पत्तेः पूर्वं विशेषणस्य न तद्रूपतां दर्शयति न क्रमेण प्रमाणमिति । न च विभिन्नज्ञानालम्बनत्वं विशेषणविशेष्यभावेन व्याप्तम् । नापि विशेषणविशेष्यभावः क्रमेणेत्युभयथापि व्यभिचारात् । तथा हि लिङ्ग लिङ्गिनोर्विभिन्नज्ञानालम्बनत्वेऽपि न विशेष्यविशेषणभाव इति व्यभिचारः । न च क्रमे साध्ये विशेषणविशेष्यभावो हेतुः, साधारणत्वात् तस्य सपक्षविपक्षाभ्यां व्यावृत्तेरिति । तथापि भिन्नज्ञानालम्बनत्वे विशेषणविशेष्ययोरनुमेयप्रतिपत्तेः प्रत्ययलक्षणत्वं स्यात् । तथाहि अनुमानाद् गृहीतं विशेषणमिन्द्रियार्थसन्निकर्षेण सह व्यापारात् प्रत्यक्षसामग्र्यामन्तभूतमिति तज्जनिता प्रतिपत्तिरग्निमानेष देश इति प्रत्यक्षफला स्यात् ।
अथैकज्ञानालम्बनयोरङ्गल्योरिवकज्ञानालम्बनपक्षे कथं विशेषणविशेष्यभावः ? प्रधानोपसर्जनभावेन । स एव कस्मादिति चेत् ? विभिन्नज्ञानालम्बनत्वेऽपि समानम् । तथाहि इदं विशेषणमिदं विशेष्यमिति विभिन्नज्ञानालम्बनत्वाविशेषे कथं नियमः ? प्रधानोपसर्जन भावादिति चेत्, इष्टम्, तदेकज्ञानालम्बनत्वेऽपीति दोषाभावात् ।
For Private And Personal Use Only
१२३
न चाग्नेनिराधारस्य पूर्वमनुमानं सम्भवति । तथाग्निरप्यनुमीयमानोऽग्नित्वविशिष्टः प्रतीयत इति पूर्वमग्नित्वग्रहणम् । तत्राप्यग्निर्विशेषणमित्यन्योन्याश्रयत्वम् । अथाग्नौ समवायोऽग्नित्वस्य विशेषणम् ? तत्राप्यग्नित्वमग्निर्वा विशेषणमिति तदेव दूषणविशिष्टस्य सर्वत्र सद्भावाद विशेषकत्वानुपपत्तिः । अथ पर्वतोऽग्नेविशेषणम् ? तत्रापि पर्वतत्वं तत्र च समवायो विशेषणमिति पूर्ववद् दूषणम् । अथाग्निसंयोगः पर्वतस्याग्नेश्च विशेषणम् ? तस्यापि संयोगिनी तयोरपि संयोग इति पूर्वदोषप्रसङ्गः । तस्मादनुमानं प्रमाणीकुर्वता विशेषणविशेष्यालम्बनमेकं विज्ञानमभ्युपेयम् । एवश्व 20 धूमविशिष्टस्य पर्वतस्योपलम्भादग्निविशिष्टे प्रतिपत्तिर्भवति ।
10
15