SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२२ व्योमवती तथैक एव कर्ता किञ्चित् कार्य चिरेण करोति व्यासङ्गाद् अनथित्वाद् वा किञ्चित् क्षिप्रं तदथितया। तत्र चिरेण कृतं क्षिप्रं कृतमिति प्रत्ययो विलक्षणत्वाद् विलक्षणं कारणमाक्षिपतीति । न च कार्यमेव निमित्तं तस्योभयात्र समानत्वात् । नापि कतव, तस्यापि साधारणत्वात् । न च निनिमित्तं कदाचिद् भवतीत्यतो विलक्षणेन निमित्तेन भवितव्यमित्यत आह * तेषाम् * युगपदादिप्रत्ययानाम् । ॐ विषयेषु * कर्तृषु कार्येषु। किविशिष्टानाम् ? * पूर्वप्रत्ययविलक्षणानाम् * पूर्वप्रत्ययाः कर्तृकार्येषु तत्प्रत्ययाः, तद्विलक्षणानाम् । उत्पत्तावन्यस्य क्षित्यादिरूपस्य निमित्तस्यासम्भवाद् यन्निमित्तं स काल इति । अथ कालस्यैकरूपतया विलक्षणप्रत्ययानामभावप्रसङ्ग एव। अथ क्रिया-वैलक्षण्याद् विलक्षणः कालस्तवैशिष्ट्याच्च प्रत्ययवैशिष्ट्यमिति चेत् । एवं तहिं दुरुत्तरमितरेतराश्रयत्वम् । तथा हि क्रियायाः क्रियारूपतया विशेषाभावात् कथं कालविशेषकत्वम् ? अथ युगपत् क्रियाविशेषितो युगपत् कालस्तविशेषिता च युगपत् क्रियेतीतरेतराश्रयत्वमेव । नैतदेवम् । निर्विकल्पिकायां संविदि परस्परव्यावृत्तक्रियास्वरूपावगमे सति 15 तद्विशिष्टः कालस्तस्माच्च युगपदादिप्रत्यया इत्युपगमात् । निर्विकल्पकाच्च सविकल्पोत्पत्तिरिष्यते। यद् वा स्वरूपेणैव क्रियाया विशिष्टत्वम्, तत्सहकारी कालो युगपदादिप्रत्ययसम्पादक इति । न चात्र विशेषणं कालः । किं तर्हि ? विशिष्टकार्योत्पत्तौ विशिष्टेन निमित्तेन भवितव्यमिति । अन्ये तु विशेषणत्वेन गृहीतस्य व्यापार इत्यनुमानादेापारानुपलब्धः, प्रमाणञ्च 28 विना असम्भवादिति कालस्य प्रत्यक्षतां ब्रुवते। तथा हि विशेष्यज्ञानान्यथानुपपत्त्या विशेषणे ज्ञानं कल्प्यते । तच्च प्रमाणान्तरव्यापारानुपलब्धः प्रत्यक्षमेव । ननु सर्वेषामेव कारकाणां विशेष्यज्ञानोत्पत्ती व्यापारविशेषेऽप्येकमेव विशेषणं नान्यदिति विशेषहेतुर्नास्तीति । न। स्वालम्बनज्ञानसहितस्य' विशेष्यज्ञानोत्पत्तावेकस्यैव व्यापारात्, अयमेवानुरागः । स्वानुरक्तप्रत्ययजनकञ्च विशेषणं नाकारापकम्, नापि स्वशब्दाभिलप्यज्ञानजनकम, असम्भवात् । नहि स्वाकारार्पकत्वं विशेषणस्य, 25 For Private And Personal Use Only
SR No.020943
Book TitleVyomvati Part 01
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy