________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कालवैधर्म्यम्
१२१
मपेक्ष्यमाणस्य सन्निकृष्टा बुद्धिरुत्पद्यते। तामपेक्ष्यापरेण कालप्रदेशेन योगादपरत्वस्योत्पत्तिरिति ।
___ अत्र दिक्सम्पादितपरत्ववैलक्षण्यान्न तदेव निमित्तम्, नापि निकृष्टजातीयतया जातिकृतं परत्वं सम्भवति । न च क्षित्यादेरन्यतमं निमित्तं सामर्थ्यानवधारणात् । यस्तु शिष्यते स काल इति ।
नन्वेकस्मिन्नेव दिने पाकजोत्पत्तिन्यायेन पिण्डयोः समुत्पादात् कथं परत्वापरत्वम् ? उत्पत्तेः प्रभृत्यादित्यपरिवर्तनापेक्षया। तथा हि जन्मनः प्रभृत्येकस्यादित्यपरिवर्तनानि भुयांसीति परत्वम्, अन्यस्य चाल्पीयांसीत्यपरत्वम् ।
अथादित्यपरिवर्तनमेवास्तु, किं कालेनेति चेत् । न। युगपदादिप्रत्ययानमेयत्वात् । न चादित्यपरिवर्तनादेव युगपदादिप्रत्ययाः सम्भवन्तीति । एकस्मिन्नेवादित्य- 18 परिवर्तने सर्वेषामनुत्पादाद् व्यपदेशाभावाच्च । तथा हि युगपत्काल इति व्यपदेशो न युगपदादित्यपरिवर्तनमिति ।
न च क्रियैव काल इति वाच्यम् । युगपदादिप्रत्ययाभावप्रसङ्गात् । तथाहि, क्रियायाः क्रियारूपतया विशेषाभ्युपगमादिति प्रत्ययाभावः, परापरव्यतिकराभावश्च।
च क्रिया काल इति प्रतीयते। यदि च कर्तृकर्मव्यतिरिक्ता विशिष्टप्रत्यय- 15 सम्पादिका क्रिया स्यात् संज्ञाभेदमात्रम् । अव्यतिरेके तु विशिष्टप्रत्ययाभाव एवेत्यलं विस्तरेण ।
तथा युगपद्भावो योगपद्यम् । बहूनां कर्तृणां कार्यकरणे बहूनां कार्याणामात्मलाभ इति। तथा हि युगपदेते कुर्वन्तीति कलिम्बनं ज्ञानम्, युगपदेतानि कृतानीति कार्यालम्बनञ्च दृष्टम् । न चात्र कर्तृमात्रं कार्यमात्रञ्चालम्बनमतिप्रसङ्गात् । तथा हि 20 यत्र क्रमेण कार्य तत्रापि कर्तृकर्मणोः सद्भावात् । स्यादेतद् विज्ञानम्, न च कतरस्माद् विशिष्टं कर्तारं कार्यं वालम्व्योत्पद्यते विज्ञानमेतदिति ज्ञायते। यच्च तद्विशेषणं क्षित्यादिविलक्षणं स काल इति न यौगपद्यायोगपद्यक्रम इति । अयुगपदेते कुर्वन्तीति कालम्बनं ज्ञानम्, अयुगपदेतानि कृतानीति कार्यालम्बनं ज्ञानम् । अत्रापि विशिष्टयोः कर्तृकर्मणोरालम्बनत्वात् क्षित्यादिविलक्षणं निमित्तं वाच्यमिति कालसिद्धिः ।
For Private And Personal Use Only