SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १२० 5 10 15 20 www.kobatirth.org व्योमवती Acharya Shri Kailassagarsuri Gyanmandir संवत्सरयुग कल्पमन्वन्तर प्रलय महाप्रलयव्यवहारहेतुः । तस्य गुणाः संख्यापरिमाणपृथक्त्व संयोगविभागाः । काललिङ्गा विशेषादेकत्वं सिद्धम् । काललिङ्गाविशेषादेकत्वं तदनुविधानात् पृथक्त्वम् । कारणे काल इति वचनात् परममहत् परिमाणम् । कारणपरत्वादिति वचनात् संयोगः । तद्विनाशकत्वाद विभाग इति । तस्याकाशवद् द्रव्यत्वनित्यत्वे सिद्धे | काललिङ्गा विशेषादख सैकत्वेऽपि सर्वकार्याणामारम्भक्रियाभिनिर्वृत्तिस्थितिनिरोधोपाधिमेदान् मणिवत् पाचकवद् वा नानात्वोपचार इति । इदानीमुद्देशतः कालस्य लक्षणपरीक्षार्थं # कालः परापरव्यतिकरयोगपद्यायोगपद्यचिरक्षिप्रप्रत्ययलिङ्गः इत्यादि प्रकरणम् । अत्र च कालसद्भावप्रतिपादकमेव लिङ्गमितरस्माद् भेदकं भवतीति मन्यमानो लक्षणान्तरं नावोचत् । तथा हि कालः, इतरस्माद् भिद्यते, परापरव्यतिकरयोगपद्यायौगपद्यचिरक्षिप्रप्रत्ययलिङ्गत्वात्, यस्तु न भिद्यते न चासावुक्तलिङ्गः, यथा क्षित्यादिः, न च तथा कालः, तस्माद् भिद्यत इति । व्यवहारो वा साध्यते, विवादगोचरतापनं द्रव्यं काल इति व्यवहर्त्तव्यं परापरव्यतिकरादिलिङ्गत्वादिति । अथ प्रतिबन्धानुपलब्धेः कथमेतानि कालसद्भावे लिङ्गं भवन्ति ? विशिष्टकार्यंतया । विशिष्टं कार्यं विशिष्टात् कारणादुत्पद्यमानं दृष्टम् । परापरव्यतिकरयोगपद्यायौगपद्यचिरक्षिप्रप्रत्ययाश्च विशिष्टं कार्यमिति विशिष्टकारणपूर्वकत्वं साध्यते । तथा च परापरयोदिकृतयोर्व्यतिकरो विपर्ययो गृह्यते । यत्र हि दिग्विवक्षयोत्पन्नं परत्वं तत्रैवापरत्वम् यत्रैवापरत्वं तत्रैव परत्वमुत्पद्यमानं दृष्टमित्यर्थान्तर । व्यवहतृनिमित्ताद् व्यतिरेकः सम्भवतीति । तथा चाधमजातीये दिग्विवक्षया परस्मिन् स्थविरपिण्डे बलीपलितादिसान्निध्यमपेक्षमाणस्योत्कृष्टजातीयं युवानमवधिं कृत्वेत रस्मात् परो विप्रकृष्टोऽयमिति बुद्धिर्भवति, तामपेक्ष्य परेण कालप्रदेशेन योगात् परत्वमिति । स्थविरश्वावधिं कृत्वोत्कृष्टजातीये यूनि परदिग्भागव्यवस्थितेऽपि रूढश्मश्रुकार्कश्य For Private And Personal Use Only
SR No.020943
Book TitleVyomvati Part 01
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy