SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org कालवैधर्म्यम् कारणम् । सर्वत्र सर्वप्राणिनामविशेषेण शब्दोपलब्धिप्रसङ्गः, सर्वशब्दानामाकाशे समवायाविशेषादत आह * श्रोत्रभावेन * श्रोत्रत्वेनेति । 5 किं तच्छ्रोत्रमित्याह - श्रोत्रं पुनः श्रवणविवरसंज्ञको नभोदेशः * इति । श्रूयतेऽनेनेति श्रवणम्। तच्च तद्विवरञ्चेति तथोक्तम् । श्रवणविवरमिति संज्ञा यस्य नभोदेशस्यासौ श्रवणविवरसंज्ञकः कर्णशष्कुलीसंयोगोपलक्षित आकाश इति । तथा शब्दनिमित्तोपभोगप्रापकधर्माधर्मोपनिबद्धः * इति । शब्दो निमित्तं यस्यासौ तथोक्तः, स चासावुपभोगश्च तं प्रापयत इति तत्प्रापकौ च तौ धर्माधमौं ताभ्यामुपनिबद्धः सहकृत इति । नन्वेवमपि कर्णशष्कुल्याकाशसंयोगोपलक्षितविशिष्टादृष्टोपगृहीतो नभोदेशस्तस्मादर्थान्तरं न भवतीति सर्वशब्दोपलब्धिः स्यात् ? नैतदेवम् । कर्णशष्कुलीसंयोगोप- 10 लक्षितस्य नभसः श्रोत्रत्वे तस्याप्यव्याप्यवृत्तितया न सर्वेषां ग्रहणम् । यद्यपि कर्णशष्कुलीसंयोगैकार्थसमवायित्वाच्छब्दानां तथापि' विशिष्टप्रत्यासत्तेरभावादग्रहणम् । यो हि कर्णशष्कुलीसंयोगस्य सान्निध्यभाक शब्दः स एवोपलभ्यते । न चैवं सर्वशब्दास्तेषामव्याप्यवृत्तित्वात् । न च कर्णशष्कुलीसंयोगावरुद्धनभोदेशव्यतिरिक्तदेशे सर्वेषामुत्पादनादग्रहणमेवेति 15 वाच्यम् । शब्दोपलम्भान्यथानुपपत्त्या सन्तानन्यायेन श्रोत्रदेशमागतस्य प्रतिपाद्यमानत्वादित्यलम्। अथ कस्माद् बधिराणां कर्णशष्कुलीसंयोगावरुद्धनभोदेशसद्भावेऽपि शब्दाग्रहणम् ? सहकार्यभावादित्याह * तस्य च नित्यत्वे सत्युपभोगनिबन्धकः * [ इत्यादि] शब्दोपलब्धौ सहकारिणोऽदृष्टस्याभावाच्छब्दोपलब्धिर्न भवतीति बाधिर्यमुपपद्यत इति। 20 काला परापरव्यतिकरयोगपद्यायोगपद्यचिरक्षिप्रप्रत्ययलिङ्गः । तेषां विषयेषु पूर्वप्रत्ययविलक्षणानामुत्पत्तावन्यनिमित्ताभावाद् यदन निमित्तं स कालः । सर्वकार्याणाञ्चोत्पत्तिस्थितिविनाशहेतुस्तद्व्यपदेशात् । क्षणलवनिमेषकाष्ठाकलामुहूर्तयामाहोरात्रार्धमासमासर्वयन For Private And Personal Use Only
SR No.020943
Book TitleVyomvati Part 01
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy