SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११८ व्योमवती दित्याह * तदनुविधानात् । तेनैकत्वेनानुविधानं साहचर्यम्, यत्र ह्येकत्वं तत्रावश्यमेकपृथक्त्वमिति । न त्वेवं परिमाणेऽपि तदनुविधानमस्त्येव । तथाहि, यत्रैकत्वं तत्रावश्यमेकपृथक्त्वं भवतीति विशेषानुविधानम्। न चैवं यत्रैकत्वं तत्रावश्यमणुत्वं स्थूलत्वं वेति विशेषानुविधानमस्तीति पूर्वं पृथक्त्वं निरूप्यते। तथा परममहत्परिमाणमाकाशे कुतः प्रमाणादित्याह * विभववचनात् ॐ इति । "विभवान्महानाकाशस्तथा चात्मा, तदभावादणु मनः” (वै० सू० ७।१।२२-२३) इति सूत्रे दर्शयति । विभवात् कारणाद् महानाकाश इति सामान्यशब्देनास्य अर्थात् परममहत्त्वं विवक्षितम् । तथा हि विभनो द्रव्यस्य परममहत्त्वं सिद्धमात्मादाविति इहापि तथा साध्यते । आकाशम्, परममहद्, विभुत्वाद्, आत्मवदिति । सर्वेषाञ्चाविभूना 10- पक्षोकरणे केवलव्यतिरेकानुमानम् । आकाशादीनामात्मपर्यन्तानां परममहत्त्वं विभुत्वाद् इत्युक्ते येषान्तु परममहत्त्वं नास्ति न तेषां विभुत्वमिति व्यतिरेकः । 15 ___ अथ किमिदं विभुत्वम् ? सर्वैमूत्तैः संयोग इति । अन्ये तु सर्वत्रोपजातानां शब्दानामाकाशे समवायस्तत्सद्भावेऽपूर्णोद्रेकता विभुत्वमिति मन्यन्ते । यद् वा अणुपरिमाणानधिकरणत्वे सति नित्यद्रव्यत्वात् परममहत्त्वमिति साध्यते । तथा * शब्दकारणवचनात् संयोगविभागाविति * “संयोगाद् विभागाच्छब्दाच्च शब्दनिष्पत्तिः” (वै० सू० ११११३० ) इति सूत्रं दर्शयति । तथाहि, संयोगविभागी शब्दोत्पत्तरसमवायिकारणमित्यभिधानादाकाशे समवायोलभ्यते । अन्यथा हि प्रत्यासत्तेरभावादसमवायिकारणत्वं न स्यात् । न चान्यदसमवायिकारणमस्तीति । यत एवं गुणवदाकाशमतो गुणवत्त्वादनाश्रितत्वाच्च द्रव्यं परमाणुवदिति । तथाहि, परमाणोगुणवत्त्वमनाश्रितत्वञ्च दृष्टं द्रव्यत्वञ्चास्ति, अद्रव्ये चैतन्न सम्भवतीति । अथ किमाकाशं नित्यम् उतानित्यमित्याह * समानासमानजातीयकारणाभावाच्च नित्यम् । तथाहि, न समानजातीयं समवायिकारणम्, आकाशस्यैकत्वात् । नाप्यसमानजातीयमसमवायिकारणमस्ति, समानजातीयाभावेन तत्संयोगस्याप्यभावात् । न च समवाय्यसमवायिकारणं विना वस्तुभूतस्य कार्यस्योत्पत्तिः सम्भवतीत्यकार्यत्वान्नित्यत्वं 25 सिद्धमाकाशस्य। अतश्च * सर्वप्राणिनां शब्दोपलब्धौ निमित्तम् * कारणम् । आकाशस्यैकत्वेऽप्यनेकार्थक्रियाकारित्वं दर्शयति । न च सत्तामात्रेणाकाशं शब्दोपलब्धेः For Private And Personal Use Only
SR No.020943
Book TitleVyomvati Part 01
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy