________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आकाशवैधर्म्यम्
तथा युगपदादिशब्दाः पूर्वापरादिशब्दाश्च यद्यपि तदुद्विशिष्टत्वात् तयोर्लिङ्ग तथापि गुणत्वेनाश्रयान्तरानुमापका इत्यलमतिविस्तरेण ।
मनोगुणत्वे चोक्तमेव दूषणमिति परिशेषाद् गुणो भूत्वाकाशस्याधिगमे परिच्छेदे कर्त्तव्ये लिङ्गमिति । परिशेषस्तु प्रसक्तप्रतिषेधेऽन्यत्राप्रसङ्गात् । तदेवं साधनं व्यतिरेकाव्यभिचारेणैवः विषयव्यवस्थापनायालम् । तथाहि शब्दः, पृथिव्युदकज्वलनपवनदिक्कालात्ममनोव्यतिरिक्तद्रव्याश्रयः, तद्वृत्तिबाधकप्रमाणसद्भावे सति गुणत्वात्, यस्तु तदुव्यतिरिक्ताश्रयो न भवति न चासौ तद्वृत्तिबाधकप्रमाणसद्भावे सति गुणः, यथा रूपादि:, नच तथा शब्दः, तस्मात् तद्व्यतिरिक्तद्रव्याश्रयः शब्द इति सिद्धमाकाशम् । तत् किमेकम् उतानेकमित्याह शब्दलिङ्गाविशेषादेकत्वं सिद्धम् । शब्दो हि लिङ्गमाकाशस्य अविशिष्टतया नानात्वाप्रतिपादकमिति ।
नवसिद्धमविशिष्टत्वं विचित्रत्वाच्छब्दानाम् । तथाहि कार्यवैचित्र्यं कारणवैचित्र्यं विना न स्यादिति तीव्रादिभेदभिन्नानां शब्दानां विचित्रेणैव कारणेन भवितव्यमिति नानात्वसिद्धिस्तदाश्रयस्य । यदि च कारणवैचित्र्यं विनापि कार्यवैचित्र्यमिष्येत, परमाणूनामपि चातुर्विध्यं न स्यात् । तत्राप्येकस्मादेव कारणाद् विचित्रं क्षित्यादिकार्यं भविष्यतीति । अथात्र [ ? अथ तत्र ] कार्यवैचित्र्येण कारणवैचित्र्यानुमानमिति चेत्, तच्छब्दवैचित्र्येऽपि समानमित्यलम् ।
तदसत् । सहकारिवैचित्र्येणापि शब्दवैचित्र्योपलब्धेर्न तदाश्रयस्य नानात्वम् । तथा च तीव्रतमादभिघातात् तीव्रतमः शब्दो मन्दाच्च मन्द इत्यादि । न च क्षित्यादाव - प्येवमस्त्विति वाच्यम् । तत्र हि चतुर्विधं कार्यमितरेतरव्यावृत्तादुपादानादुत्पद्यमानं दृष्टमिति तज्जातीयाः परमाणवश्चतुविधा एव प्रतीयन्ते । कार्यवैचित्र्यन्तु सामग्री - वैचित्र्यादेव । तत्र क्वचित् कारणभेदः क्वचित् कर्मभेदोऽन्यस्य चेति यथासम्भवं ग्राम् । अत्र कारणभेदेनापि शब्दवैचित्र्योपपत्तेर्न समवायिकारणाद् भेद इति सत्यम् । एतच्छन्द लिङ्गाविशिष्टत्वान्नानात्वाप्रतिपादन [ ? क ] मिति ।
अथ नानात्वाप्रसिद्धावप्येकत्वं प्रमाणं विना न सिद्ध्यतीत्यभिधेयं प्रमाणमिति चेत्, न । द्रव्यत्वादेव संख्यासद्भावसिद्धी नानात्वे प्रमाणाभावादेकत्वमेव सिध्यतीति । तथा संख्यानन्तरं परिमाणमवसरप्राप्तं परित्यज्य क्रमातिक्रमेण [ पृथक्त्व ] निरूपणं कस्मा
For Private And Personal Use Only
११७
5
10
15
20
25