________________
Shri Mahavir Jain Aradhana Kendra
११६
5
10
15
20
25
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्योमवती
विभक्तग्रहणाद्, रूपादिवत् । ते चात्मनिमित्तं विना न प्रवर्तन्त इति प्रयोगदर्शनादात्मोपकारित्वं निमित्तमिति कल्प्यते ।
अथ दिक्कालमनसां गुणो भविष्यतीति तन्निषेधार्थमाह * श्रोत्रग्राह्यत्वात् * इत्यादि । तथा च शब्दो न दिक्कालमनसां गुणः, श्रोत्रग्राह्यत्वात्, यद् यच्छ्रोत्रग्राह्यं तत्तद् दिक्कालमनसां गुणो न भवति, यथा शब्दत्वादि, तथा च शब्दः श्रोत्रग्राह्य), तस्माद् दिक्कालमनसां गुणो न भविष्यतीति । ये तु तद्गुणास्ते तु श्रोत्रग्राह्या न भवन्ति यथा संख्यादय इति । तथा च दिक्कालमनोव्यतिरिक्तस्य श्रोत्रस्य प्रतिपादनात् तत्तद्गुणत्वे तेन ग्रहणाभावप्रसङ्गः । तथाहि दिक्कालाभ्यां न सम्बद्धमिति तत्समवेतस्य शब्दस्याग्रहणम् ।
मनसश्चाणुपरिमाणत्वात् तद्गुणत्वे गम्भीरध्वनेरश्रवणप्रसङ्गः । तदभावे च क्वचित् प्रदेशे शब्दस्यानुत्पत्तिः स्यात् । न च कार्येणैव कारणस्य तत्र सद्द्भावः, कार्यस्यान्यथापि भावात् । नापि विभुद्रव्यविशेषगुणानां सुखादीनामिव परमाणुविशेषगुणानामिन्द्रियेणोपलम्भो दृष्टः । परमाणुपरिमाणञ्च मनः । तदेवं दिक्कालमनोगुणत्वे शब्दस्य श्रग्राह्यत्वं न स्यादिति । बाधकञ्चेदं वैशेषिकगुणभावाच्च * इति । तथा विशेषगुण एव वैशेषिकस्तस्य भावादिति । तथाहि दिक्कालमनसां पक्षीकरणे वैशेषिकगुणाभावोऽसिद्धः स्यादस्यैव [ ? स्य च ] विशेषगुणत्वादिति व्यतिरेकमुखेनान्या हेतुख्यायते | दिक्कालमनसां वैशेषिकगुणाभाव इत्युक्ते शब्दस्तु विशेषगुण इति हेतुर्लभ्यत एव । तथा च शब्द:, दिक्कालमनसां गुणो न भवति, विशेषगुणत्वात् । यो यो विशेषगुणः स स दिक्कालमनसां गुणो न भवति, यथा रूपादिः, तथा चायं विशेषगुणः, तस्मान्न दिक्कालमनसां गुणः शब्द इति ।
अन्ये तु न दिक्कालमनसां गुणः शब्द इति साध्ये वैशेषिकगुणाभावः साध्यान्न विशिष्यत इति मन्यमानाः हेत्वन्तरं ब्रुवते । तथा हि न दिक्कालमनसां गुणः शब्दः, गुणत्वेन गुणिनो लिङ्गत्वात्, यो यो गुणत्वेन गुणिनो लिङ्गः स स दिक्कालमनसां गुणो न भवति, यथा सुखादयः, तथा चायं शब्दो गुणत्वेन गुणिनो लिङ्गः, तस्मात् तद्गुणो न भवतीति । ये तु दिक्कालयोलिङ्ग न ते गुणत्वेन गुणिनो लिङ्गम्, यथा पूर्वापरादिप्रत्यया युगपदादिप्रत्ययाश्चेति । ते हि तद्विशिष्टत्वात् तयोलिङ्गम्, गुणत्वेन चात्मनः ।
For Private And Personal Use Only