SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आकाशवैधय॑म् ११५ अथ प्राक्तनानुमानस्य निर्दुष्टतायामनुमानान्तरस्पानुत्थानमेव । न । आत्मगुणत्वे सति शब्दस्य श्रोत्रेणापरिच्छेदाद्, आश्रयासिद्धत्वमनुमानयोः। तथाहि, श्रोत्रमात्मा न भवति, अकर्तृत्वात् । नाप्यन्तःकरणमेव श्रोत्रम्, तस्य हि बहिःकरणत्वात् । अभ्युपगमे वा यावत् सुखाद्युपलब्धिस्तावच्छब्दोपलब्ध्या भवितव्यमिति बाधियं न स्यात् । अथ शब्दग्रहणमन्तःकरणस्योपरतव्यापारात् ? एवं तहि सुखदीनामग्रहणं स्यात् । न च करणं चक्षुराधेकत्रोपरतव्यापारमन्यत्रार्थप्रकाशकं दृष्टम्। क्षित्यादिवायुपर्यन्तञ्च श्रोत्र न भवत्येव घ्राणादिसम्पादने सामर्थ्यावधारणात् । दिक्कालयोश्च श्रोत्ररूपता न सम्भवत्येव, भौतिकत्वाद् बाह्येन्द्रियाणाम् । पारिशेष्यादन्यच्छोत्रम् । तेन चात्मगुणस्य शब्दस्याग्रहणमेव स्यादित्याश्रयासिद्धत्वम् । गृह्यते 10 च बाह्येन्द्रियेण शब्दस्तस्मादात्मगुणो न भवतीति । तथा च शब्दः, नात्मगुणः, बाह्येन्द्रियप्रत्यक्षत्वात्, यो यो बाह्येन्द्रियप्रत्यक्षः स स आत्मगुणो न भवति, यथा रूपादिः, तथा चायं बाह्येन्द्रियप्रत्यक्षः, तस्मादात्मगुणो न भवतीति । वैधhण तु सुखादयः। ततश्च नात्मगुणः शब्दः, आत्मान्तरग्राह्यत्वात्, रूपादिवत् । आत्मगुणाश्चात्मान्तरग्राह्या न भवन्ति, यथा सुखादयः। ननु शब्दस्यात्मान्तरग्राह्यत्वं व्यक्त्यपेक्षया न सम्भवत्येव । तथा हि या शब्दव्यक्तिरेकस्मिन् श्रोत्रे समवेतोपजाता न सान्यत्रेति । जात्यपेक्षया तु सुखादेरप्यात्मान्तरग्राह्यत्वादित्यनैकान्तिकत्वम् । नैतदेवम् । येनात्मना क्रियते शब्दस्तस्मादन्येनापि गृह्यते । न चैवं सुखादिरिति । तथाहि, तीव्रतराभिघातादेका शब्दव्यक्तिमहान्तमाकाशदेशं व्याप्योपजायत इत्यनेकैरुपलभ्यत एव । न चाव्याप्यवृत्तित्वेन विरोधः 20 स्वाश्रयाव्यापकत्वात् । न च सन्तानाभ्युपगमो विरुध्यते तीव्रतरादिभेदभिन्नानां शब्दानामुत्पत्त्यभ्युपगमात् । तथा ह्यस्ति तीव्रतराभिघातादेका शब्दव्यक्तिर्महान्तमाकाशदेशं कल्पितं व्याप्योपजायते ततस्तीव्रतर इत्यादिक्रमेणानुभवात् । तथा व्यक्त्यपेक्षायामात्मान्तरग्राह्यत्वं न सम्भवतीति ब्रुवतः सन्तानाभ्युपगमादपसिद्धान्तप्रसङ्ग इति । न च इतोऽप्यात्मगुणः शब्दः, आत्मन्यसमवेतत्वात्, रूपादिवत्, ये चात्मगुणास्ते 8 तत्रैव समवेताः सुखादय इति। अथात्मन्यसमवेतत्वं साध्यान्न विशिष्यत इत्याह * अहङ्कारेण विभक्तग्रहणाच्च * इति । तथाहि, नात्मनि समवेतः शब्दः, अहङ्कारेण For Private And Personal Use Only
SR No.020943
Book TitleVyomvati Part 01
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy