________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११४
व्योमवती क्रमेणाभिव्यक्तिः, सद्भावे प्रमाणाभावादित्युक्तत्वात् । संयोगाच्च क्रमेणोत्पत्त्यभ्युपगमे शब्दस्य न स्पर्शवविशेषगुणत्वं तवैधादित्यलमतिविस्तरेण ।
ननु चात्र हेतूपन्यासानन्तरं प्रतिज्ञोपन्यासादवयवव्यत्यये किं प्रयोजनम् ? शास्त्रे नायं नियम इत्युपदर्शनमेव । तथाहि, “अवयवविपर्यासवचनमप्राप्तकालम्" ( न्या० सू० ५।२।११) नाम निग्रहस्थानं जल्प एव न शास्त्र इत्युपदर्शयति । उदाहरणाद्यवयवलाभार्थमित्यन्ये । तच्चेषद्व्यत्ययं विनाप्यर्थकथनादेव । तस्यानेकधाभ्युपगात् ।
नन्वेकेनैव प्रमाणेनार्थस्म परिच्छेदादेकस्मिन्नर्थेऽनेकहेतुपन्यासो व्यर्थ एव ! यद् वा प्रमाणान्तरोपन्यासान्यथानुपपत्त्या ज्ञायते न प्राक्तनस्यार्थपरिच्छेदे सामर्थ्यम्, अपूर्वार्थपरिच्छेदकत्वं वा, अधिगतार्थस्यानुवादकत्वात् । तथा ह्यधिगतेऽप्यर्थे प्रमाणान्तरप्रवृत्तावविश्रामप्रसङ्गः। तस्मादन्योऽन्यव्यावृत्तविषयत्वात् प्रमाणानामनेकहेतूपन्यासो परिज्ञानायैव । नैतदेवम् । सर्वत्र व्यवस्थानभ्युपगमात् । तथा ह्येकस्मिन्नेवार्थेऽनेकोपायदर्शनं शास्त्रे न दोषाय, तस्य हि परानुग्राहकत्वात् । तथा विभिन्नाभिप्रायाः प्रतिपाद्या इत्यनेकहेतूपन्यासात्। कश्चित् केनचिदल्पप्रयासेनैव प्रतिपद्यत इति । न चात्र कस्यचिदप्रामाण्यम् सर्वेषामपि प्रमाजनकत्वात् ।
15
न च प्रमाणपरम्पराप्रसङ्गः परिच्छिन्नेऽयर्थेऽवश्यं प्रमाणान्तरोपन्यासानभ्युपगमात् । तथाहि, यत्र प्रमाणान्तरसद्भावस्तत्रैव तदपेक्षा, न तदभावेऽपीति । यथा शब्देनावगतेऽनुमानेनापि बुभुत्सिते, अनुमानेनाप्यधिगते प्रत्यक्षेणेति । तथा प्रत्यक्षेऽ
प्येकेन' करणेनोपलब्धे पुनः करणान्तरेणेति। तथैकस्मिन् सुखसाधनेऽर्थेऽनेकप्रमाणप्रवृत्ती 20 सुखातिशयश्च प्रयोजनमिति ।
न चानधिगतार्थगन्तृत्वं प्रमाणसामान्यलक्षणं प्रत्यभिज्ञानादेरप्रामाण्यप्रसङ्गात् । तथा ह्यधिगत एवार्थे प्रत्यभिज्ञानमतुमानञ्च प्रवर्तत' इति वक्ष्यामः।
अथैकदेशवृत्तिविशेषगुणत्वात् क्षणिकविशेषगुणत्वाच्च सुखादिवदात्मगुणो भविष्यतीत्याह * न बाह्येन्द्रियप्रत्यक्षत्वात् ४ इत्यादि ।
For Private And Personal Use Only