________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ननु चात्र विशेषहेतोरभावान्निश्चयाभाव एव । किं तत्स्थस्यैव शब्दस्योपलम्भ: सन्तानानुमितस्य वेति ? न तत्स्थस्यैवोपलम्भः क्वचिदाश्रयवियुक्तस्यापि श्रोत्रदेशे प्रतिभासात् । न चैवं स्पर्शवतां गुणाच आश्रयवियुक्ता गृह्यन्त इति नासिद्धत्वं हेतोः ।
अथ स्पर्शद्गुणत्वेऽपि गन्धस्येव तदाश्रयागमनादुपलम्भो भविष्यतीति चेत्, स्पर्शद्गुणत्वप्रसिद्धावाश्रयाविच्छेदेन प्राणाधिष्ठानदेश एव प्रतिभासात् सूक्ष्मस्य तदाधारस्यागमनं युक्तम् । न चैवं शब्दस्य तथा सूक्ष्मद्रव्याधारस्य भेरीशब्दस्यागमनमेव न युक्तम्, भेर्या समवेतस्योत्पादात् । न ह्यन्यत्र समवेतमन्यत्र समवैतीति । समवेत्यवादेन त्वागमनेऽपि तदवयवशब्दा भेरीशब्दाचेति प्रतिभास एव प्रसङ्गः, सूक्ष्मद्रव्यसमवायस्याविशेषात् ।
तथा भेरीदण्डाभिघाताद् भेर्यामुत्पन्नः शब्दो नागच्छत्येव, आश्रयस्य तत्रावस्थानात् । तदवयवेषु च सूक्ष्मेषु ये जाताः शब्दास्तदाश्रयस्यागमनादागच्छन्तीत्यभ्युपगमे भेर्यादिगम्भीरध्वनेर श्रवणमेव स्यात् । न चाहङ्कारिकत्वाद व्यापकस्य भेर्यादिदेशे वृत्तिर्घटत इति मन्तव्यम, पूर्वमेवाहङ्कारिकत्वप्रतिषेधात् । न च श्रोत्रेण भेर्यादिदेशग्रहणं सम्भवतीति तदवच्छेदेन शब्दस्य ग्रहणाभावप्रसङ्गः ।
अथ प्रसिद्धसमयस्य शब्दश्रवणादाश्रयानुमाने सति 'अयं भेरीशब्दः' इत्यवच्छेदेन प्रतिभासत इति चेत् ? आयातस्तर्हि मदीयं पन्थानम् । कथम् ? शब्दश्रवणात् सन्तानद्वारेणाश्रयानुमितो 'इह भेर्या' शब्दः' इति प्रतिभासाभ्युपगमात् ।
तदेवमाश्रयादन्यत्रोपलभ्यमानत्वान स्पर्शवद्विशेषगुणः शब्द इति सिद्धम् ।
तथैकस्मिन्नेव वाद्ये वाद्यमाने बहूनां षड्जादीनामुपलम्भान्न तद्गुणत्वम् । तथाहि यद्यातोद्यगुणः स्याच्छब्दः कथं बहूनां शब्दानां समानेन्द्रियग्राह्याणामविभूनि द्रव्ये सद्भावः स्यात् ? अथ चित्ररूपवदेतत् स्यात् न । तत्रैकरूपस्यारम्भात् । तथाहि, नानारूपाण्येकं कार्यमारभन्त इत्युक्तम् । न चैवं नानाशब्देरेकः शब्द आरभ्यमाणो दृष्ट इति । न चात्र चित्ररूपवदेकस्मिन् काले चित्रशब्दप्रतिभासः सम्भवति, क्रमेण प्रतिभासनात् । तथा रूपादिवच्चित्रोत्पादेऽभ्युपगते युगपदुपलब्धिप्रसङ्गो न च
१५
For Private And Personal Use Only
११३
10
18
20