Book Title: Vyomvati Part 01
Author(s): Vyomshivacharya, Gaurinath Shastri
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११८
व्योमवती
दित्याह * तदनुविधानात् । तेनैकत्वेनानुविधानं साहचर्यम्, यत्र ह्येकत्वं तत्रावश्यमेकपृथक्त्वमिति । न त्वेवं परिमाणेऽपि तदनुविधानमस्त्येव । तथाहि, यत्रैकत्वं तत्रावश्यमेकपृथक्त्वं भवतीति विशेषानुविधानम्। न चैवं यत्रैकत्वं तत्रावश्यमणुत्वं स्थूलत्वं वेति विशेषानुविधानमस्तीति पूर्वं पृथक्त्वं निरूप्यते।
तथा परममहत्परिमाणमाकाशे कुतः प्रमाणादित्याह * विभववचनात् ॐ इति । "विभवान्महानाकाशस्तथा चात्मा, तदभावादणु मनः” (वै० सू० ७।१।२२-२३) इति सूत्रे दर्शयति । विभवात् कारणाद् महानाकाश इति सामान्यशब्देनास्य अर्थात् परममहत्त्वं विवक्षितम् । तथा हि विभनो द्रव्यस्य परममहत्त्वं सिद्धमात्मादाविति
इहापि तथा साध्यते । आकाशम्, परममहद्, विभुत्वाद्, आत्मवदिति । सर्वेषाञ्चाविभूना 10- पक्षोकरणे केवलव्यतिरेकानुमानम् । आकाशादीनामात्मपर्यन्तानां परममहत्त्वं विभुत्वाद्
इत्युक्ते येषान्तु परममहत्त्वं नास्ति न तेषां विभुत्वमिति व्यतिरेकः ।
15
___ अथ किमिदं विभुत्वम् ? सर्वैमूत्तैः संयोग इति । अन्ये तु सर्वत्रोपजातानां शब्दानामाकाशे समवायस्तत्सद्भावेऽपूर्णोद्रेकता विभुत्वमिति मन्यन्ते । यद् वा अणुपरिमाणानधिकरणत्वे सति नित्यद्रव्यत्वात् परममहत्त्वमिति साध्यते । तथा * शब्दकारणवचनात् संयोगविभागाविति * “संयोगाद् विभागाच्छब्दाच्च शब्दनिष्पत्तिः” (वै० सू० ११११३० ) इति सूत्रं दर्शयति । तथाहि, संयोगविभागी शब्दोत्पत्तरसमवायिकारणमित्यभिधानादाकाशे समवायोलभ्यते । अन्यथा हि प्रत्यासत्तेरभावादसमवायिकारणत्वं न स्यात् । न चान्यदसमवायिकारणमस्तीति । यत एवं गुणवदाकाशमतो गुणवत्त्वादनाश्रितत्वाच्च द्रव्यं परमाणुवदिति । तथाहि, परमाणोगुणवत्त्वमनाश्रितत्वञ्च दृष्टं द्रव्यत्वञ्चास्ति, अद्रव्ये चैतन्न सम्भवतीति ।
अथ किमाकाशं नित्यम् उतानित्यमित्याह * समानासमानजातीयकारणाभावाच्च नित्यम् । तथाहि, न समानजातीयं समवायिकारणम्, आकाशस्यैकत्वात् । नाप्यसमानजातीयमसमवायिकारणमस्ति, समानजातीयाभावेन तत्संयोगस्याप्यभावात् । न
च समवाय्यसमवायिकारणं विना वस्तुभूतस्य कार्यस्योत्पत्तिः सम्भवतीत्यकार्यत्वान्नित्यत्वं 25 सिद्धमाकाशस्य। अतश्च * सर्वप्राणिनां शब्दोपलब्धौ निमित्तम् * कारणम् ।
आकाशस्यैकत्वेऽप्यनेकार्थक्रियाकारित्वं दर्शयति । न च सत्तामात्रेणाकाशं शब्दोपलब्धेः
For Private And Personal Use Only
Loading... Page Navigation 1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226