Book Title: Vyomvati Part 01
Author(s): Vyomshivacharya, Gaurinath Shastri
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi

View full book text
Previous | Next

Page 151
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कालवैधर्म्यम् आकारवादप्रतिषेधात् । नापि विशेषणशब्दाभिलप्यं विशेष्ये ज्ञानं सम्भवति, पुरुष दण्ड इति ज्ञानानुत्पत्तेः । अथ दण्डस्यातिशयाधायकत्वानुपपत्तेर्विशेषणत्वाभाव इति चेत्, न । विशिष्टज्ञानजनकत्वेनास्यैवातिशयत्वात् । तज्ज्ञानञ्चातिशयः, तत्सद्भावे कार्यसद्भावात् । अथ विशेषणविशेष्ययोर्विभिन्नज्ञानालम्बनत्वे न प्रमाणमस्तीति चेत् । तथाहि, विशेष्यज्ञानमुत्पत्तेः पूर्वं विशेषणस्य न तद्रूपतां दर्शयति न क्रमेण प्रमाणमिति । न च विभिन्नज्ञानालम्बनत्वं विशेषणविशेष्यभावेन व्याप्तम् । नापि विशेषणविशेष्यभावः क्रमेणेत्युभयथापि व्यभिचारात् । तथा हि लिङ्ग लिङ्गिनोर्विभिन्नज्ञानालम्बनत्वेऽपि न विशेष्यविशेषणभाव इति व्यभिचारः । न च क्रमे साध्ये विशेषणविशेष्यभावो हेतुः, साधारणत्वात् तस्य सपक्षविपक्षाभ्यां व्यावृत्तेरिति । तथापि भिन्नज्ञानालम्बनत्वे विशेषणविशेष्ययोरनुमेयप्रतिपत्तेः प्रत्ययलक्षणत्वं स्यात् । तथाहि अनुमानाद् गृहीतं विशेषणमिन्द्रियार्थसन्निकर्षेण सह व्यापारात् प्रत्यक्षसामग्र्यामन्तभूतमिति तज्जनिता प्रतिपत्तिरग्निमानेष देश इति प्रत्यक्षफला स्यात् । अथैकज्ञानालम्बनयोरङ्गल्योरिवकज्ञानालम्बनपक्षे कथं विशेषणविशेष्यभावः ? प्रधानोपसर्जनभावेन । स एव कस्मादिति चेत् ? विभिन्नज्ञानालम्बनत्वेऽपि समानम् । तथाहि इदं विशेषणमिदं विशेष्यमिति विभिन्नज्ञानालम्बनत्वाविशेषे कथं नियमः ? प्रधानोपसर्जन भावादिति चेत्, इष्टम्, तदेकज्ञानालम्बनत्वेऽपीति दोषाभावात् । For Private And Personal Use Only १२३ न चाग्नेनिराधारस्य पूर्वमनुमानं सम्भवति । तथाग्निरप्यनुमीयमानोऽग्नित्वविशिष्टः प्रतीयत इति पूर्वमग्नित्वग्रहणम् । तत्राप्यग्निर्विशेषणमित्यन्योन्याश्रयत्वम् । अथाग्नौ समवायोऽग्नित्वस्य विशेषणम् ? तत्राप्यग्नित्वमग्निर्वा विशेषणमिति तदेव दूषणविशिष्टस्य सर्वत्र सद्भावाद विशेषकत्वानुपपत्तिः । अथ पर्वतोऽग्नेविशेषणम् ? तत्रापि पर्वतत्वं तत्र च समवायो विशेषणमिति पूर्ववद् दूषणम् । अथाग्निसंयोगः पर्वतस्याग्नेश्च विशेषणम् ? तस्यापि संयोगिनी तयोरपि संयोग इति पूर्वदोषप्रसङ्गः । तस्मादनुमानं प्रमाणीकुर्वता विशेषणविशेष्यालम्बनमेकं विज्ञानमभ्युपेयम् । एवश्व 20 धूमविशिष्टस्य पर्वतस्योपलम्भादग्निविशिष्टे प्रतिपत्तिर्भवति । 10 15

Loading...

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226