Book Title: Vyomvati Part 01
Author(s): Vyomshivacharya, Gaurinath Shastri
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi

View full book text
Previous | Next

Page 154
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२६ व्योमवती योर्यदि व्यापारापेक्षया विशेषणवृत्तित्वमिष्येत, विशेष्यसम्बन्ध विना अभावसमवाययोग्रहणं स्यात् । यत्र हि तयोर्वृत्तिस्तत्रैव ग्रहणजनकत्वोपलब्धेः । अदृष्टस्य त्वात्मसमवेतस्यापि सकलकार्योत्पत्तौ साधारणत्वात्, संयोगादिसद्भावे तदभावे च केवलस्य व्यापारोऽभ्युपगम्यत एव। स चोभयत्र व्यापारापेक्षया सम्बद्ध इव सम्बद्धो न परमार्थतः। न चोपचरितस्येन्द्रियासहकारित्वम्, अपरोक्षज्ञानस्यान्यथासम्भवेन तद्भावसिद्धेः। दृष्टञ्च श्रोत्रान्योपचरितस्यापि शब्दज्ञानसहकारित्वमिति । यच्चेदं 'सुरभि द्रव्यम्' इत्याद्यनुसन्धानज्ञानमित्युक्तम्, तदसत् । अन्यत्राप्येवं प्रसङ्गात् । न चात्र विभिन्नज्ञानालम्बनत्वे किञ्चिद् बाधकमस्तीति तदेवाभ्युपेयम् । नापि 'दण्डिनमहमद्राक्षम्' इति स्मरणानुपपत्तिः, विशेषणज्ञानजनितसंस्कारस्य विशेष्यज्ञानसहकारिणः संस्कारारम्भेणापि तद्भावात् । यच्चेदमेकज्ञानालम्बनत्वेऽपि विशेष्यस्य प्राधान्यात् क्रियासम्बन्धः, सामानाधिकरण्यञ्च घटत इति। तन्न। प्राधान्यस्यैव विचार्यत्वात् । एकज्ञानालम्बनतायां हि कि कृतं प्राधान्यामिति चिन्त्यम् । सामानाधिकरण्यन्त्वेकज्ञानालम्बनत्वाविशेष पुरुषप्रत्ययेन 15 न च दण्डप्रत्ययेनेति विशेषणहेत्वभावः । अथ विभिन्नविशेषणनिमित्तयोरेकस्मिन्नर्थे वृत्तेः सामानाधिकरण्यम्, दण्डीति प्रत्यये दण्डो विशेषणं पुरुषे इति । न चैवं दण्डस्य' विशेषणत्वेऽन्यद् विशेषणमस्तीति सामानाधिकरण्यम् । नैतदेवम् । अनेकस्य' प्रमेयस्य प्रतिभासाभ्युपगमात् । तथा हि 'न दण्डी' इति ज्ञाने दण्डत्वाद्यपि प्रमेयं प्रतिभासत' इत्यभ्युपगमे कथं न सामानाधिकरण्यम्, तथा सूत्रव्याघातश्च “समवायिनः श्वैत्याच्छ्वत्यबुद्धेः श्वेते बुद्धिस्तत्कार्यकारणभूते" (वै. सू. ८।१।६ ) कार्यकारणस्वभावे इति । ___ न पुनर्भूताभिधानमुपमायां मुख्य बाधकानुपपत्तेः। नापि प्रमेयाविशेषादेव प्रत्ययविशेषः, सहकारिवलक्षण्येनापि भावात् । नन्वेवं तहि विशेषणवत् सम्बन्धेऽपि ज्ञानं कल्पनीयम्। तत्र तदनुरागस्याप्रतिभासेन चक्षुरादिवद् अगृहीतस्यापि व्यापाराभ्युपगमात् । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226