Book Title: Vyomvati Part 01
Author(s): Vyomshivacharya, Gaurinath Shastri
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi

View full book text
Previous | Next

Page 84
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५६ व्योमवती सम्बन्धः पृथिवीत्वेनोपलक्षितः समवाय इति । पृथिवी धर्मिणी इतरेभ्यो भिद्यत इति साध्यो धर्मः, पृथिवीत्वाभिसम्बन्धात्, यस्त्वितरस्मान्न भिद्यते न चासौ पृथिवीत्वेन सम्बद्धो यथोदकादि, न च तथा पृथिवीत्वेन नाभिसम्बद्धा पृथिवी, तस्मादितरेभ्यो भिद्यत इति । समवायो ह्यतिव्यापकत्वादलक्षणः स्यादिति पृथिवीत्वं विशेषणम् । नन्वेदं पृथिवीत्वमेवासाधारणत्वाद् व्यवच्छेदसमर्थमित्यसमर्थविशेषणता हेतोर्दोषः ? न । पक्षेऽसम्भवित्वाशङ्कापरिहारार्थत्वात् । तथाहि, पृथिवीत्वात् पृथिवीत्युक्ते पक्षेऽस्ति नास्तीत्याशङ्का न निवर्तेत । अतः समर्थमभिसम्बन्धपदम् । ननु भावप्रत्ययादेव सम्बन्धाधिगतेः, षष्ठ्या वा पृथिव्या भावः पृथिवीत्वमिति, स्वशब्देन तस्याभिधानं व्यर्थम् ? तन्न। भावप्रत्ययः शब्दवृत्त्या भावमभिधत्ते, नाभि10 सम्बन्धम् । न च गम्यां वृत्तिमाश्रित्य सम्बन्धपदस्य वैयर्थ्यम्, शास्त्रे तथाभावेऽतिप्रसङ्गात् । षष्ठी चानियतसम्बन्धाभिधायिकेति विशिष्ट सम्बन्धलाभायाभिसम्बन्धपदम् । धिभेदादवास्तवो भेदः समवायस्येत्यवारकं लक्षणं कथमितरेभ्यो भेदज्ञापकमिति स्यात् ? न। कल्पितभेदस्याप्यर्थक्रियाकरणात्, यथा श्रोत्रस्य । तथाहि, श्रोत्रं कर्णशष्कुल्याकाशसंयोगोपलक्षितो नभोदेशः, स चावास्तवभेदोऽपि शब्दोप15 लब्धिलक्षणामर्थक्रियां विदधाति । तद्वत् समवायेऽप्यदोषः। समवेतं वा पृथिवीत्वं लक्षणम् । पृथिवीत्वञ्च तद् अभिसम्बध्यत इत्यभिसम्बन्धश्चेति कर्मधारयपरिग्रहात् । __ननूभयपदव्यभिचाराभावाद् विशेषणसमासः कथम् ? तथा सति [अभि] सम्बध्यत इति अभिसम्बन्धः, समवेतं रूपादि दृष्टमित्यर्थवत् पृथिवीत्वम्। पृथिवीत्वञ्चेत्युक्ते नासमवेतं पृथिवीत्वं सम्भवतीति व्यभिचाराभावः । अथ अपृथिवीव्यावृत्तिरूपं पृथिवीत्वमसमवेतम्, तन्निरासायार्थवादभिसम्बन्धपदम् । न । तस्यासिद्धृत्वात् । प्रमाणेन हि प्रसिद्धस्य विशेषणेन व्युदासो दृष्टः । यथा नीलेनानीलादेः । न वा अपोहः सिद्धः, वृत्तिविकल्पानुपपत्तेः। बाधकस्याप्रमाणतया वास्तवसामान्यसद्भावादेकपदाव्यभिचारेऽपि वर्मधारयसमासाभ्युपगमाददोष इति । केचिद् अभिग्रहणम् अभि समन्तात् सम्बन्ध इति पो व्याप्त्यर्थम्, आभि मुख्येन च सम्बन्ध इति केवलव्यतिरेकाव्यभिचारेण गमकत्वप्रदर्शनार्थम् । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226