________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५६
व्योमवती
सम्बन्धः पृथिवीत्वेनोपलक्षितः समवाय इति । पृथिवी धर्मिणी इतरेभ्यो भिद्यत इति साध्यो धर्मः, पृथिवीत्वाभिसम्बन्धात्, यस्त्वितरस्मान्न भिद्यते न चासौ पृथिवीत्वेन सम्बद्धो यथोदकादि, न च तथा पृथिवीत्वेन नाभिसम्बद्धा पृथिवी, तस्मादितरेभ्यो भिद्यत इति । समवायो ह्यतिव्यापकत्वादलक्षणः स्यादिति पृथिवीत्वं विशेषणम् ।
नन्वेदं पृथिवीत्वमेवासाधारणत्वाद् व्यवच्छेदसमर्थमित्यसमर्थविशेषणता हेतोर्दोषः ? न । पक्षेऽसम्भवित्वाशङ्कापरिहारार्थत्वात् । तथाहि, पृथिवीत्वात् पृथिवीत्युक्ते पक्षेऽस्ति नास्तीत्याशङ्का न निवर्तेत । अतः समर्थमभिसम्बन्धपदम् ।
ननु भावप्रत्ययादेव सम्बन्धाधिगतेः, षष्ठ्या वा पृथिव्या भावः पृथिवीत्वमिति, स्वशब्देन तस्याभिधानं व्यर्थम् ? तन्न। भावप्रत्ययः शब्दवृत्त्या भावमभिधत्ते, नाभि10 सम्बन्धम् । न च गम्यां वृत्तिमाश्रित्य सम्बन्धपदस्य वैयर्थ्यम्, शास्त्रे तथाभावेऽतिप्रसङ्गात् । षष्ठी चानियतसम्बन्धाभिधायिकेति विशिष्ट सम्बन्धलाभायाभिसम्बन्धपदम् ।
धिभेदादवास्तवो भेदः समवायस्येत्यवारकं लक्षणं कथमितरेभ्यो भेदज्ञापकमिति स्यात् ? न। कल्पितभेदस्याप्यर्थक्रियाकरणात्, यथा श्रोत्रस्य ।
तथाहि, श्रोत्रं कर्णशष्कुल्याकाशसंयोगोपलक्षितो नभोदेशः, स चावास्तवभेदोऽपि शब्दोप15 लब्धिलक्षणामर्थक्रियां विदधाति । तद्वत् समवायेऽप्यदोषः। समवेतं वा पृथिवीत्वं लक्षणम् । पृथिवीत्वञ्च तद् अभिसम्बध्यत इत्यभिसम्बन्धश्चेति कर्मधारयपरिग्रहात् ।
__ननूभयपदव्यभिचाराभावाद् विशेषणसमासः कथम् ? तथा सति [अभि] सम्बध्यत इति अभिसम्बन्धः, समवेतं रूपादि दृष्टमित्यर्थवत् पृथिवीत्वम्। पृथिवीत्वञ्चेत्युक्ते नासमवेतं पृथिवीत्वं सम्भवतीति व्यभिचाराभावः ।
अथ अपृथिवीव्यावृत्तिरूपं पृथिवीत्वमसमवेतम्, तन्निरासायार्थवादभिसम्बन्धपदम् । न । तस्यासिद्धृत्वात् । प्रमाणेन हि प्रसिद्धस्य विशेषणेन व्युदासो दृष्टः । यथा नीलेनानीलादेः । न वा अपोहः सिद्धः, वृत्तिविकल्पानुपपत्तेः। बाधकस्याप्रमाणतया वास्तवसामान्यसद्भावादेकपदाव्यभिचारेऽपि वर्मधारयसमासाभ्युपगमाददोष इति ।
केचिद् अभिग्रहणम् अभि समन्तात् सम्बन्ध इति पो व्याप्त्यर्थम्, आभि मुख्येन च सम्बन्ध इति केवलव्यतिरेकाव्यभिचारेण गमकत्वप्रदर्शनार्थम् ।
For Private And Personal Use Only