________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथिवीवैधर्म्यम्
५७
ननु किम् इतरस्माद् व्यावृत्ता प्रमाणसिद्धा पृथिवी पक्षीक्रियते, अथ अप्रसिद्धति ? यदि अप्रसिद्धा, पक्षीकरणमयुक्तम् । अथ प्रमाणप्रसिद्धा व्यावृत्ततया, तहि लक्षणवैयर्थ्यम् । अथाव्यावृत्ततयोपलब्धा, तदसत् । व्यावृत्तं हि पदार्थानां स्वरूपम्, तेन च वपुषा गृह्यमाणा धर्मिणो न रूपान्तरेणेति दृष्टम् । नैतदेवम् । लोकप्रसिद्धिवशेन पृथिव्याः पक्षीकरणात् । तथाहि, यत्र जनानां पृथिवीति व्यवहारः सा 5 पक्षीकृतेत्यबाधः।
नन्वितरेतराश्रयत्वम्, पृथिवीतरेभ्यो भिद्यत इत्यत्रेतरेभ्यो भेदः साध्यस्तेषान्तु पृथिवीतो भेदेन प्रतिपत्ताववधिभावो घटत इति एकाप्रतिपत्तावित राप्रतिपत्तेरुभयाभावप्रसङ्गः? तन्न। असाधारणधर्मोपलम्भसहकारिणेन्द्रियेण व्यावृत्तरूपतया निर्विकल्पकज्ञाने पृथिवी प्रतिभासते । तथा अबादयोऽप्यसाधारणधर्मोपलम्भव्यावृत्त्या नः ।। परस्परं चक्षुापारादेव प्रथन्ते। स्वयं प्रतिपन्नेऽपि भेदे परप्रतिपादनायानुमानोपन्यासः । तथाहि, विप्रतिपद्यमानः परः परार्थानुमानेनैव प्रतिपाद्यत इति ।
___ अथेतरेभ्यो भेदे साध्येऽबादयोऽपीतरेभ्यो भिद्यन्त इति विद्यमाने सपः कथं केवलव्यतिरेकाव्यभिचारः ? न । साध्यापरिज्ञानात् । तथाहि, पृथिवीतरेभ्यो भिद्यत इति, पृथिवीतरेभ्यो निरवशेषेभ्यो भिद्यत इति साध्यार्थः । तथा च सपक्षाभावः। ना दकादयः स्वात्मभ्यो भेदिन इति ।
अथ पृथिवीत्वं यद्यसाधारणधर्माद् भिद्यते ततोऽप्यन्यस्माद् भिद्यत इत्यनवस्था। अभेदे तु साध्यसाधनभावानुपपत्तिः, अतः स्वतो भिद्यते, क्षितेरपि तथाभावेन बाधात् ।
अथ पृथिवीत्वं पृथिव्या विशेष्यते पृथिवी च पृथिवीत्वेनेतीतरेतराश्रयत्वम् ? नैतदेवम् । पृथिव्यामनुवर्तमानवपुषो भेदान्तराद् व्यावृत्तस्येन्द्रियव्यापारानिर्विकल्पक-2 ज्ञाने प्रतिभासनात् । तथा हनुगतस्वभावस्यापीतरस्माद् व्यावृत्तं स्वरूपं सामान्यस्य । तच्च प्रत्यक्षेण स्वयं प्रतीतमपि परप्रतिपादनाय हेतुत्वेनाभिधीयत इत्यनवस्थाद्यभावः । न च सर्वथा विप्रतिपद्यमानः प्रतिपाद्य: स्यादिति धर्मिज्ञानं सामान्येन साधनज्ञानञ्चाभ्युपेयम्। केवलम् इतरेभ्यो भिन्ना पृथिवी न प्रतिपद्यत इति साधनोपन्यासः ।
तथैकं वाक्यमावर्त्यमानं भूयांसमर्थमाहेति शब्दार्थनिरूपणपरत्वेनाभिसम्बध्यते 25 पृथिवीत्वाभिसम्बन्धादिति वाक्यम्। तथा च सामान्यं शब्दार्थः । तस्यैकतया सङ्केत
For Private And Personal Use Only