SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्योमवती कारणादिति जैमिनीयाः। विशेषास्त्वनियतदिग्देशसम्बन्धितया न कात्स्येनोपलब्धिभाजो भवन्तीति कथं सङ्केत विषयाः? ___ अथ यावतामुपलम्भस्तावत्स्वेव सङ्केतकरणाद् व्यवहारः, तहि विशेषान्तरे सङ्केतासम्भवाद् व्यवहारानुपपत्तिः। न च अयोगिनः प्रत्येकमशेषविशेषोपलम्भः । न चानुपलब्धेविदमस्य वाच्यामिदमस्य वाचकमित्यभिधानाभिधेयनियमनियोगप्रतिपत्तिः। समयप्रतिपत्तिञ्च विना शब्दश्रवणादर्थप्रतिभासाभावः। अथाभिन्ननिमित्त मुपादाय विशेषेषु सङ्केतः ? तदप्यसत् । अभिन्ननिमित्तसद्भावेऽपि विशेषाणामानन्त्यं नातिवर्तन इति सामान्ये सङ्केतात् सामान्यं शब्दार्थः । न च सामान्यवति सङ्केतोपलम्भेन सामान्यमभिधायानन्तरं विशेषेषु वत्तिष्यत 10 इति वाच्यम् । विरम्य व्यापाराभ्युपगमेन शब्दकर्मबुढ्यादीनां विरम्य व्यापारासम्भवाद् [?] इति सूत्रविरोधात् । तथा च विशेषणप्रतिपत्तावेव क्षीणत्वाद् विशेष्याप्रतिपादकम् । तदुक्तम्, विशेष्यं नाभिधा गच्छेत् क्षीणशक्तिविशेषणे [ ? ] । अथ सामान्यप्रतिपत्तेरपुरुषार्थत्वाद् विशेषार्थतया प्रतिपत्तुः प्रवृत्तिनिवृत्ती न 15 स्यातामिति । तन्न । सामान्यप्रतिपत्त्यन्यथानुपपत्त्या विशेषावबोधे सति प्रवत्तिनिवृत्त्योर्भावात् । तथाहि, निराधारं हि सामान्यं भवेच्छशविषाणवत् । ( श्लो० वा०, आकृति ० श्लो० १०) इत्याधारप्रतिपत्तिरित्यलमतिकल्पितेन । सर्वमेतदयुक्तम् । अभिन्ननिमित्तोपादाने सति सामान्यवति सङ्केतकारणात ___ सामान्यवाञ् शब्दार्थः । तद् यथा आनन्त्येनावस्थिता विशेषाः, तथा ह्येकं तेष्वभिन्न सामान्यमेकत्रोपलब्धम् । तदुपलम्भादनुपलभ्यमाना अपि विशेषाः सामान्यवन्तः, सङ्केतविषयाः शब्दाश्चानित्यत्वेऽपि विशिष्टानुपूर्वीसचिवा इति । तथाहि, यत्र यत्रेदशं सामान्यं पश्यसि तत्र तत्रायं शब्दः प्रयोक्तव्यः । इत्थम्भूताच्च शब्दादयमर्थः प्रतिपत्तव्य इति सक्रेतग्रहो विशेषाणामानन्त्येऽपि घटत इति । तथा च शब्दश्रवणात् सामान्यए वत्यर्थे प्रतिपत्तिर्दृष्टा । सा च सङ्केतप्रतिपत्तिमाक्षिपति । सङ्केतश्चानेनैव प्रकारेण घटते नान्यथेति। For Private And Personal Use Only
SR No.020943
Book TitleVyomvati Part 01
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy