________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पृथिवीवैधर्म्यम्
अथ गोशब्दश्रवणाच्छावलेपादिविशेषाप्रतिपतेर्न विशेष: शब्दार्थः। सत्यम् । कि तहि ? सामान्ययुक्तोऽर्थः प्रतीयते, न शावलेयादिविशेषः। स च शावलेयादिशब्देभ्य एव प्रतीयत इति । न चैतावता सामान्यमेव शब्दार्थः, प्रधानोपसर्जनभावेनोभयोः प्रतिभासनात् । तथा गामानयेत्यादिप्रयोगेषु सामान्य वतोऽर्थस्यानयनादिकृत्या सम्बन्धात् ।
___ अथ सामान्यमभिधाय कथं विशेषेवर्त्तते, सूत्रविरोधात् ? न। सूत्रार्थापरिज्ञानात् । तथा च सूत्रस्यार्थः शब्दो हि एकदा विशेषणं प्रतिपाद्य पुनर्विशेषणं न प्रतिपादयतीति विरम्य व्यापारो निषिद्धः । न पुनविशेषणं प्रतिपाद्य विशेष्यं नाभिधत्त इति । तथा कर्म विभागं कृत्वोत्तरसंयोगं करोति, अकृतसंयोगस्य विनाशाभावात् । न च विभागं कृत्वा संयोगं करोतीति विरम्य व्यापारप्रतिषेधः ! तथा विशेषणबुद्धिर्विशेष्यबुद्धि कृत्वा 10 न कार्यान्तरमारभत इति । एवं सुखादिष्वपि प्रतिषेधः।।
ननूक्तं क्षीणशक्तिविशेषणे इति, 'विशेष्यं नाभिदध्यात्' इति तावच्छक्तः कार्यविषयत्वात् । कार्यञ्च विशेषणप्रतिपत्तिवद् विशेष्यप्रतिपत्तिलक्षणमुपलभ्यमानं शक्तेर्व्यवस्थापकम् । अथ कार्यस्यैवाभावं ब्रूयात् ? स चैवं ब्रुवाणः स्वसंवेदनमपि बाधते, विशेष्यप्रतिपत्तेः संवेदनात् । भिन्नज्ञानालम्बनयोश्च विशेषणविशेष्यभावपक्षे चोद्यं 15 नैकज्ञानालम्बने इति । समानञ्चैतदुपलभ्यमानस्य शब्दस्यार्थप्रतिपादकत्वाभ्युपगमात् । स्वात्मप्रतिपत्तौ च क्षीणत्वात् सामान्यप्रतिपादकत्वं न स्यात् । अथ सामान्यप्रतिपत्तेष्टत्वान्न तत्र शब्दशक्तेः प्रक्षयः ? तर्हि विशेषप्रतिपत्तेरपि दृष्टत्वान्न शक्तिप्रक्षयः । अर्थप्रतिपादनार्थश्च शब्दप्रयोग इति ।
यच्चोक्तं शब्दसामान्यप्रतिपत्त्यन्यथानुपपत्त्या विशेषाध्यवसाये प्रवृत्तिनिवृत्ती 20 स्यातामिति । तत्र कि सामान्यमात्रप्रतिपत्त्यन्यथानुपपत्त्या विशेषावबोधः; तद्विशेषप्रतिपत्त्यन्यथानुपपत्त्या वा ? यदि सामान्यमात्रप्रतिपत्त्यन्यथानुपपत्त्या ? तथा सति सामान्यमात्रप्रतिपत्तौ विशेषमात्रप्रतिपत्तिरिति प्रवृत्त्यभावः । अथ विशिष्टसामान्यप्रतिपत्त्यन्यथानुपपत्त्या ? स तहि विशेषप्रतिपन्नो विशेषणमिति शब्दादेव प्रतीयते ।
अथ प्रमाणान्तरादिति यदि शब्दात् ? कथं सामान्यमेव शब्दार्थः, विशेषस्याप्यभि- 25 धायकत्वात् । अथ प्रमाणान्तरम् ? न ( वा ?), प्रमाणान्तरव्यापाराननुभवात् । न च
For Private And Personal Use Only