________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्योमवती
सामान्यं परपक्षे विशेषाद् भिन्नं सम्भवतीत्यभेदे सामान्यप्रतिपत्तिवद् विशेषप्रतिपत्तिप्रसङ्गः। अन्यथा हि एतत्प्रतिपत्तावितरप्रतिपत्तेर्भेदः । अथ इष्यत एव केनचिद्रूपेण अभिन्न भिन्नञ्चेति । न । भेदाभेदयोविधिप्रतिषेधरूपत्वाद् अभिन्ने धर्मिण्यसम्भवः । तथा हि किं येन रूपेण भिन्नं तेनैव रूपेणाभिन्ननुत रूपान्तरेणेति वाच्यम् । यदि देशभेदापेक्षया भिन्न रूपभेदेन त्वभिन्नमित्यविप्रतिपत्तिः। परो विभिन्नदेशभेदापेक्षया भेदं प्रतिपद्यत इति ।
__ अथानुगतव्यावृत्तात्मतया प्रतिभासाद् वस्तुबोधात्मकत्वम्। तदसत् । अनुगतसामान्यसम्बन्धादनुगतम्, स्वरूपेण तु व्यावृत्तमितीष्यत एव द्विरूपता। न चैकत्वे तादात्म्ये सति द्विरूपतोपपद्यत इति समवायलक्षणः सम्बन्धोऽभ्युपगन्तव्यः । स्वरूपभेदेन __ तु भेदे समवायं विना नियतविशेषेण व्यपदेशानुपपत्तिः । पृथिव्याः पृथिवीत्वमित्यादिसम्बन्धं विना यावत् पृथिव्या व्यपदिश्यते तदवस्थान्तरेण कस्मान्नेति नियमाभावः।
यदि च पृथिवीशब्दः पृथिवीत्वमभिदध्यात् पृथिवीत्वशब्दस्याओं वक्तव्यः । न चाभेदे तद्धितसाफल्यं पश्याम' इति सामान्यवानर्थः पृथिवीशब्दस्येति युक्तम् । अथ एकत्र सङ्केतितः पृथिवीशब्दः कथमर्थान्तरे प्रतिष्यत इत्याह पृथिवोत्वाभिसम्बन्धात् निमित्तात् पृथिवीशब्द एकत्र सङ्केतितः, स चार्थान्तरेऽपि तदृशात् प्रवर्तत इति सङ्केतानुपपत्तेविशेष एव शब्दार्थो न सम्भवतीति सांख्यशाक्तपक्षोऽपि निषिद्ध एव ।
तथा “शक्तयः सर्वभावानां कार्यार्थापत्तिगोचराः” (श्लो॰वा०, शून्य ० श्लो० २५४) इति तन्निरासः। यत् पृथिवीत्वाभिसम्बन्धात् पृथिवी कार्यं करोतीति पृथिवीत्वमेव निजा शक्तिरन्या तु चरमसहकारिरूपा, तत्सद्भावे कार्यकरणात् तदभावे चाकरणादिति। तथाहि, विद्यमाना अपि तन्तवः कार्य नारभन्तेऽन्त्यतन्तुसंयोगं विनेति सैव शक्तिः। अथ अर्थान्तरमर्थान्तरस्य कथं शक्तिः ? अनर्थान्तरत्वेऽपि समानमेतत् । सैव तस्यैव शक्तिरिति । अथ यदि पूर्वेषां चरमसहकार्येव शक्तिस्तस्याप्यशक्तस्याकारणत्वादन्या शत्तिर्वाच्येत्यनवस्था। नैतदेवम् । चरमस्य हि सहकारिणः पूर्वसहकारिण एव शक्तिः , इतरेतराभिसम्बन्धेन कार्यकरणात् । स एव च समग्राणां भावः सामग्रीति भावप्रत्ययेनोच्यते, तेन हि सता समग्रव्यपदेशदर्शनात् ।
ननु यदि अतीन्द्रिया शक्तिर्नेष्यते, मणिमन्त्रादिना तहि प्रतिबद्धोऽग्निर्न स्फोटादिकार्यमारभत इति कस्य प्रतिबन्धः ? न चाग्नेः, न चाग्निसंयोगस्य उपलभ्यमानत्वा
23
For Private And Personal Use Only