________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पृथिवीवैधर्म्यम्
दिति शक्तेः प्रतिबन्धः । तदसत् । मणिमन्त्रादिप्रतिबन्धकाभावस्यापि कार्योत्पत्तौ सहकारित्वात् । तदभावे तु न कार्यस्योदय इति तद्विशिष्टसंयोग एव शक्तिः । न पुनः शक्तेः प्रतिबन्धो नानुत्पत्तिविनाशो वा सम्भवतीति । चिरोत्पन्नत्वाद् विनष्टायाश्च पुनरुत्पत्तिकारणाभावादनुत्पत्तिप्रसङ्गः । अशक्तस्य कार्यानुत्पादकत्वादित्यन्वयव्यतिरेकाभ्यां प्रतिबन्धकाभावविशिष्टोऽग्निसंयोग एवाग्निशक्तिरिति ज्ञातम् । एवमत्रापि पृथिवीत्वं निजा शक्तिरपरा तु सहकारिभूतेति ।
पृथिव्यादीनां नवानां गुणवत्त्वं समवायिकारणत्वं क्षित्युदकात्मनां चतुर्दशगुणवत्त्वञ्चोक्तम् । तत्र कैर्गुणैर्गुणवती, केषामुत्पत्तौ समवायिकारणत्वम् के वा चतुर्दश गुणाः, fara गुणात्मकं लक्षणमित्याह रूपादिवाक्यम् । रूपादयः संस्कारपर्यन्तं विद्यन्ते यस्याः सा रूपादिसंस्कारवती । किमेते स्वतन्त्रतया वृत्तिकृता प्रतिपाद्यन्ते, उत सूत्रकारस्याभिप्रेता इत्याशङ्क्याह # एते च गुणविनिवेशाधिकारे इत्यादि । एते च सूत्रकारेणाभिहिताः । कस्मिन्नधिकारे ? गुणा विविधमनेकप्रकारेण विनिवेश्यन्ते यस्मिन्नधिकारे स तथोक्तो द्वितीयोध्यायः, तत्र सूत्रकारेण प्रतिपादिताः ।
तथा च रूपरसगन्धस्पर्शवती पृथिवी (वै० सू० १११ ) इत्यनेन विशेषगुणाश्चत्वारोऽभिहिताः * तथा चानुषवचनात् इति । संख्याः परिमाणानि, पृथक्त्वम्, संयोगविभागौ, परत्वापरत्वे, कर्म च रूपिद्रव्यसमवायाच्चाक्षुषाणि (वै० सू० ४। १ । १२ ) इति सूत्रं दर्शयति ।
?
सूत्रस्यार्थः- रूपिद्रव्यमुपलब्धिलक्षणप्राप्तं महत्त्वाद्युपेतम् तत्र समवायात् संख्यादयश्च प्रत्यक्षग्राह्या इति, अन्यपरेणापि सूत्रेण रूपवति द्रव्ये संख्यादीनां सद्भावोऽभिहितः । अन्यथा ह्यविद्यमानत्वादेव तत्र तेषामुपलम्भो न स्यादिति ।
पदार्थश्च संख्या इति बहुवचनं संख्यात्वव्यतिरेणैकत्वत्वाद्यपर सामान्यप्रदर्शनार्थम् । परिमाणानीति । तथा परिमाणत्वापेक्षयाणुत्वाद्यपरसामान्यज्ञापनार्थम् । पृथक्त्वमित्येकवचनं पृथक्त्वत्वसामान्यापेक्षया एक पृथक्त्वत्वाद्यपर सामान्यशून्यताप्रदर्शनार्थम् । संयोगविभागाविति द्विवचनेन संयोगत्वविभागत्वव्यतिरेकेण अपरसामान्याभावेऽपि विभागस्य संयोगापेक्षिताज्ञापनार्थ समासकरणम् । तथा परत्वापरत्वे इत्यपि द्विवचनं परत्व [त्वा ] परत्व [व] सामान्यापेक्षया अपरसामान्याभावेऽपि साहचर्यज्ञापनार्थं समासकरणमिति ।
For Private And Personal Use Only
६१
5
10
15
20
25