________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६२
व्योमवती
5
तथा * पतनोपदेशाद् * इति। गुरुत्वात्पतनमिति (वै. सू० ५।१।७)। सत्र दर्शयति । यथा च पतने गुरुत्वं कारणं तथा वक्ष्यामो गुरुत्वपरीक्षायाम् । * अद्भिः सामान्यवचनात् * इति । सपिर्जतुमधूच्छिष्टानां पार्थिवानामग्निसंयोगाद् द्रवत्वमद्भिः सामान्यम् ( वै. सू० २।१।६) इति सूत्रं दर्शयति । सर्पिरादीनामग्निसंयोगाद् द्रवत्वं सम्पद्यतेऽद्भिः तथा सामान्यं यथा भवतीति सूत्रार्थः। * उत्तरकर्मवचनात् । इति । नोदनादाद्यमिषोः कर्म तत्कर्मकारिताच्च संस्कारात्तथोत्तरमुत्तरञ्च ( वै० सू० ५।१।१७ ) इति सूत्रं दर्शयति इषोः शरस्यायं कर्म नोदनाद् भवतीति, कर्म च नोदनापेक्षं संस्कारमारभते । कर्मकारिताच्च संस्कारात् तथोत्तरञ्च, एक: संस्कारोऽनेक कर्मारभते पतनं या पदिति। इषोः समवायिकारणस्थावगतायां सम्भविन्यामिषोरिति षष्ठ्यभिधानं तदवयवेष्वपि कर्मज्ञापनार्थम्। यद् वा षष्ठ्यर्थस्य विद्यमानत्वात् तदभिधानेऽप्यदोषः ।
15
क्षितावेव गन्धः । रूपमनेकप्रकारकं शुक्लादि। रसः षड्विधो मधुरादिः । गन्धो द्विविधः सुरभिरसुरभिश्च । स्पर्शोऽस्या अनुष्णाशीतत्वे सति पाकजः।
सा तु द्विविधा, नित्या अनित्या च। परमाणुलक्षणा नित्या, कार्यलक्षणा त्वनित्या। सा च स्थैर्याद्यवयवसन्निवेशविशिष्टजातिबहुत्वोपेता शयनासनाधनेकोपकारकरी च ।
त्रिविधञ्चास्याः कार्य शरीरेन्द्रियविषयसंज्ञकम् ।
तत्र शरीरं द्विविधं योनिजमयोनिजश्च । तत्रायोनिजम् अनपेक्षशुक्रशोणितं देवर्षीणां शरीरं धर्मविशेषसहितेभ्योऽणुभ्यो जायते । क्षुद्रजन्तूनां यातनाशरीराण्यधर्मविशेषसहितेभ्योऽणुभ्यो जायन्ते ।
20
शुक्रशोणितसन्निपातनं योनिजम् । तत्तु द्विविधं जरायुजमण्डजञ्च । मानुषपशुमृगाणां जरायुजम्, पक्षिसरीसृपाणामण्डजम् ।
For Private And Personal Use Only