________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६३
पृथिवीवैधर्म्यम् इन्द्रियं गन्धव्यञ्जकं सर्वप्राणिनां जलाधनभिभूतैरसम्पृक्तैः केवलैः पार्थिवावयवैरारब्धं घ्राणम् ।
विषयस्तु द्वथणुकादिप्रक्रमेणारब्धस्त्रि विधो मृत्पाषाणस्थावरलक्षणः। तत्र भूप्रदेशाः प्राकारेष्टकादयो मृद्विकाराः। पाषाणा उपलमणिवज्रादयः। स्थावरा वृक्षतणौषधिगुल्मलतावतानवनस्पतय । इति ।
___रूपादयो हि असाधारणत्वाद् भेदका इति प्रतिज्ञातार्थसमर्थनार्थमसाधारणत्वमाह * क्षितावेव गन्धः ४६ इत्यादि। अथोदके तेजसि वोपलम्भाद् गन्धस्यावधारणमनुपपन्नम् ? न । संयुक्तसमवायेनोपलम्भात् । तथाहि, उदके वासकद्रव्यसम्पर्काद् गन्धाभिव्यक्तिदृष्टा, तेजसि वा इन्धनविशेषानुविधानादिति । यदि पुनः स्वभावत एव स्याद् गन्धस्तेजसीन्धन- 10 विशेष विना, वासकद्रव्यसम्पर्कञ्च विना वारिण्युपलभ्येत । न चैवम् । अतो युक्तमेतत् । क्षितावेव गन्ध इति ।
रूपं शुक्लाद्यनेकप्रकारं क्षितावेव, नोदके न तेजसि । नियमेन शुक्लमेवोदके भास्वरञ्च तेजस्युपलभ्यते। पृथिव्यान्त्वनेकप्रकारम्। तथा हि पटादिभेदभिन्नत्वात् पृथिव्याः काचिच्छुक्ला काचिद्धरितेत्युपलम्भः ।
ननु युक्तं व्यक्तिभेदापेक्षयानेकरूपसम्बन्धित्वं पृथिव्याः, या तु गोलकरूपा न तस्यामनेकप्रकारम् । अथ तत्रापि केचिद् भागाः शुक्लाः, केचित् कृष्णा इत्याधुपलम्भाद्' अनेकरूपसम्बन्धित्वम् । न। अवयवावयविनोरन्यत्वाद् अवयवानामनेकरूपसम्बन्धित्वे कथमवयविनस्तथाभावः, अभ्युपगमे वा सूत्रव्याघातः। अविभुनि द्रव्ये समानेन्द्रियग्राह्याणां विशेषगुणानामसम्भवात् (लुप्तं वै० स० ) 0 इति व्याहन्येतेति।
___ व्यापके हि द्रव्ये समानेन्द्रियग्राह्याणां बहूनामपि सम्भवो दृष्टो यथा शब्दानामाकाश इति तन्निरासाय अविभुग्रहणम्। तथा अविभुनि द्रव्ये विभिन्नेन्द्रियग्राह्याणां रूपरसादीनां सम्भवादिति समानेन्द्रियग्राह्यपदम् । समानेन्द्रियग्राह्याणामपि संख्यादीनां बहूनामविभुनि द्रव्ये सम्भवो दृष्टस्तद्व्यवच्छेदाय विशेषग्रहणम् ।
For Private And Personal Use Only