SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६४ व्योमवती अतो बहूनां रूपाणामेकस्यां पृथिव्यामभ्युपगमे व्याघातः। अभ्युपगम्यापि ब्रूमः शुक्लादीनां बहूनामेकत्र सद्भावे किमाश्रयव्यापित्वं प्रदेशत्तित्वं वा ? आश्रयव्यापित्वे सत्येकावयवसहितेऽन्यवयविन्युपलब्धे परावयवावरणेऽप्यनेकरूपं गृह्येत, आश्रयव्यापित्वादेव । अथ प्रदेशवृत्तित्वम् ? तथापि विशेषणमाश्रयव्यापित्वमिति विरुध्यते । अथैकं चित्रं तद् रूपमिति । यथा शुक्लं पीतमित्यादिविशेषस्तथा चित्रं रूपविशेष एव । अत्रोक्तम्, चित्रं तदेकमिति चेदिदं चित्रतरं ततः । (प्र० वा० २।२००) यद्येकं तत् कथं चित्रं चित्रञ्चेदेकता कथम् ।। एकं चित्रञ्चेत्यतिशयेनाश्चर्यमिति । न परस्परविरुद्धानां रूपाणामेकरूपा10 रम्भकत्वं न्याय्यम् । समानरूपारम्भकत्वेनोपलम्भात्' शुक्लात् शुक्लमिति । अथ पृथिव्यामप्सु च शुक्लादिविशेषरूपमात्रमुपलम्भान्यथानुपपत्त्या निश्चीयते। अन्यथा हि नीरूपत्वाच्चक्षुर्ग्राह्यत्वं न स्यात्, रूपवतो द्रव्यस्य चक्षुर्ग्राह्यत्वादिति । न चावयवरूपादेव चक्षुर्विषयत्वम् । अन्यरूपेणान्यस्य चक्षुविषयत्वे वायोरपि तथाभावप्रसङ्गात् । अतश्चक्षुर्विषयत्वाद् रूपमात्रं क्षिताविति । नन्वेवमनेकप्रकारं क्षिते: रूपमिति विरुध्यते, रूपमात्रस्य' शुक्लाद्यन्तर्भावाभावात् । तथा ह्यनेकप्रकारं शुक्लादिभेदभिन्नमित्युच्यते। रूपमात्रञ्च विशेषरहितमिति विरोधः। तदेतत् सर्वमविदितार्थम् । शुक्लाद्यनेकप्रकारस्य' रूपस्य क्षितावभ्युपगमात् । ननूक्तं सूत्रविरोध इति । न । सूत्रार्थापरिज्ञानात् । तथा च सूत्रस्यार्थः, अविभुन्यव्यापके 20 द्रव्ये समानेन्द्रियग्राह्याणां विशेषगुणानामेकाकाराणामसम्भव इति प्रतिषेधः । न वनेक प्रकाराणाम्। कथमेतत् ? अनेकाकारस्वरूपस्य क्षितावुपलम्भात्। तथा रसस्य बड़भेदस्येति। अथैकाकाराणां बहूनां रूपाणां रसानाञ्चैकत्र सद्भावस्तस्मान्नेष्यते, वैयर्थ्यात् । तथा टेकेनैव शुक्लरूपेण रूपप्रत्ययस्य जनितत्वाद् द्वितीयस्य वैयर्थ्यमेव । तथा मधुररसेन मधुरप्रत्ययस्येति । For Private And Personal Use Only
SR No.020943
Book TitleVyomvati Part 01
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy