________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पृथिवीवैधर्म्यम् अथ शुक्लादीनामेकस्य सद्भावे किं व्याप्यवृत्तिमम्, उताव्याप्यवृत्तित्वम् इत्युक्तम् । तत्राव्याप्प्रवृत्तित्वे न विरोधः। शेषाणामाश्रयव्यापित्वमेवेत्यवधारणानभ्युपगमात् । अत एवैकावयवसहितस्य पटस्योपलम्भात् तदेकरूपोपलम्भोऽपि । आश्रयव्यापितया अनेकरूपाणामनुपलम्भाच्चित्रप्रतिभासाभावः ।
अथ किं चित्रादुत्पद्यते चित्रम्, अथाचित्रादिति ? चित्रादुत्पत्त्यभ्युपगमे पटकारण- 5 कारणेष्वपि चित्रप्रतिभासप्रसङ्गः ! अथाचित्रादुत्पद्यते ? तदा हि एकरूपः सर्वत्र चित्ररूपोत्पत्तिप्रसङ्गः । नेतद् युक्तम् । नानारूपाणि हि कारणानि नानारूपं कार्यमारभन्त इत्युपलब्धम् । न चैवं तत्कारणकारणेषु नानारूपाणि सन्तीति चित्रानुत्पादः । न च तन्तूनां नीलाधनेकरूपसम्बन्धित्वात् पटेऽप्यनेकरूपारम्भकत्वे किञ्चिद् बाधकमस्ति । कारणगुणपूर्वप्रक्रमेण तथाविवस्य रूपस्योपादानात् । तथाहि, प्रत्येक कारणेष्वविचित्रादपि । रूपान्नीलान्नीलं पीतात्पीतमिति युक्तम् । भवतु चैवैकं चित्रं रूपं नीलादिरूपैरेकरूपारम्भात् । यथा हि शुक्लादिविशेषो रूपस्य तथा चित्रं रूपादिविशेष एव । यद्यपि शुक्लादिशब्दैर्न व्यपदिश्यते तथापि स्वशब्देन व्यपदेशादस्तित्वम् ।
अथ विरुद्धानां नीलादीनां कथमेकरूपारम्भकत्वम् ? यथा शुक्लानामिति । यथा हि बहूनि शुक्लरूपाणि एक शुक्लरूपमारभन्त इत्युपलब्धं तथा नीलादीनामपि 15 चित्ररूपारम्भकत्वं दृष्टत्वादभ्युपगन्तव्यम् । अथ चित्रशब्दस्य नानापर्यायत्वाद् एक चिःञ्च इतीदमेव चित्रमाश्चर्यमिति । तदसत् ? यथा नानारूपेषु चित्रव्यपदेशः 'चित्रास्तन्तबो नीलादिरूपसम्बन्धिनः' इति, तथा तदारब्धेऽपि पटे चित्रव्यपदेशः 'चित्रः पट': इति 'चित्रं रूपमस्य' इति । न चावश्यं नानारूपसम्बन्धिष्वपि पटादिषु चित्रव्यपदेशो दृष्टः । नानारूपैस्तु कारणैरारब्धेऽवश्यं भवतीति ।
अथैकत्वाच्चित्ररूपस्प एकावयवसहितेऽप्यवयविन्युपलब्धे शेषावयवावरणे विचित्रप्रतिभासः स्यात् ? न। सहकार्यभावात् । तथा ह्यवयवेषु नानारूपोपलम्भसहकारीन्द्रियमवयविनि चित्रप्रतिभासं जनयतीत्यन्वयव्यतिरेकाभ्यामुपलब्धम्, तेन शेषावयवावरणे तद्रूपाणामग्रहणादवयविनि चित्रप्रतिभासाभावः। न चाप्रतिभासादेकान्तेनासत्त्वं सहकार्यभावेनाप्यनुपलम्भात् ।
यच्च रूपमात्रमुपलम्भान्यथानुपपत्त्या ज्ञायत इति कैश्चिदुक्तं तत्रापि न दोषो विप्ततिपद्यमानस्यानुमानोपन्यासात् । तथाहि, शुबलादिविशेषव्यतिरिक्तं चित्रं रूपं
For Private And Personal Use Only