________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६६
व्योमवती क्षिती विद्यमानमपि वैजात्याद् यो न मन्यते तं प्रत्यनुमानं क्षितरुपलम्भाद् रूप [व] त्वं विज्ञायत इति, चक्षुषोपलम्भाच्च । सिद्धे रूपवत्त्वे शुक्लादिशब्दैर्व्यपदेशासम्भवाच्चित्रशब्देनाभिधीयत इति सिद्धम् ।
एतेन रसो व्याख्यातः। रसः षड्विधो मधुरादिः क्षितावेव । व्यक्तिभेदेन 5 एकस्याञ्च व्यक्ताविति । तथा चैकस्यामपि हरीतक्यामुपलभ्यते षड्विधो रस इति । अत एव षड्भेदस्यान्यत्रानुपलम्भाद् इतरेभ्यो भेदकत्वम् ।
तथा गन्धो द्विविधः सुरभिरसुरभिश्च । एकस्यां पृथिव्यां व्यक्तिभेदेन [एकस्यां] चेति पूर्ववत् । अथ सुरभिगन्धाभाव एवासुरभिरिति व्यवहारसम्भवाद् गन्धस्य
द्वैविध्यमनुपपन्नम् ? न। उभयोस्तीव्रतरादिभेदभिन्नत्वात् । यथा हि सुरभिगन्धे 10 तीव्रतरादिव्यवहारस्तथा असुरभिगन्धेऽपीति । सुरभिगन्धाभावे च एतन्नोपपन्नम्, अभावस्य निरतिशयत्वादिति ।
स्पर्शोऽस्याः पृथिव्या अनुष्णाशीतत्वे सति पाकजः । अनुष्ण इति उष्णस्पर्शव्यवच्छेदार्थम् । अशीत इति शीतात्, पाकज इति वायवीयात् । अथ पाकजोऽग्नि
संयोगज इत्युक्ते न व्यभिचारोऽस्तीति किमर्थमनुष्णाशीतग्रहणमिति चेत्, स्वरूप15 कथनार्थम्।
अन्ये तु ( किल ) पाकादग्नेरुष्णस्पर्शो भवतीति अनुष्णग्रहणम् । अशीतग्रहणमेव तु स्वरूपार्थमिति।
अथ रूपादींनामिव वैलक्षण्याप्रतिभासनान्न पाकजत्वं स्पर्शस्य। तन्न । प्रत्यक्षेण वैलक्षण्याप्रतीतावप्यनुमानेन पाकजत्वप्रसिद्धः। तथा च पार्थिवस्पर्शः, पाकजः, पार्थिवविशेषगुणत्वात्, तद्गतरूपादिवदिति ।
___ नन्वेवं सामान्यगुणानामपि पाकजत्वप्रसङ्गः पार्थिवगुणत्वाद् रूपवदिति । नैतद् युक्तम्। सामान्यगुणानां पक्षीकरणेऽग्निसंयोगेनैवानेकान्तः । तथाहि, पार्थिवपरमाणावग्निसंयोगोऽग्निसंयोगजो न भवति पार्थिवगुणश्चेति । न चैवं पार्थिवविशेषगुणत्वं व्यभिचरतीति । सपक्षैकदेशे वर्तमानस्यात्यन्तं विपक्षाद् व्यावृत्तेर्गमकत्वमेव । न च पक्षे प्रत्यक्षागमाभ्यां विरुध्यत इति न कालात्ययापदिष्टः । न च प्रकरणसमः तत्त्वानुपलब्धेरप्रयोजकत्वात् । अतः पाकजस्पर्शादिकारणत्वाद् इतरेभ्यो भिद्यते पृथिवीति ।
For Private And Personal Use Only