________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६७
पृथिवीवैधर्म्यम् समानानां भावः सामान्यम् भेदाधिष्ठानमतो भेदमाह * सा तु द्विविधा * इति । सा तु पृथिवी द्विविधा। केन रूपेणेत्याह ॐ नित्या चानित्या च * । नित्या परमागुलक्षणा परमाणुस्वभावा। कार्यलक्षणा कार्यस्वभावा त्वनित्येति भेदः। भेदे च सति सामान्यलक्षणमुपपद्यत इत्यसम्भवित्वाशङ्काव्युदासः ।
सर्वस्य कार्यस्य विनाशे समवायिकारणाभावात् पुनरुत्पत्तिर्न स्यादित्याशङ्कानिरासार्थञ्च वाक्यम् ४ सा तु द्विविधा नित्या चानित्या च । अनित्यायाश्च नाशे नित्या पुनर्बयगुकादिप्रक्रमेण स्वर्गादौ कार्यमारभत इति सिद्धम्।
कथं पुनः परमाणुस्वभावा पृथिवी ज्ञायत इत्याशङ्कयाह * कार्यलक्षणा । कार्येण लक्ष्यते ज्ञायत इति । तथा हि कार्य समवायिकारणपूर्वकं तत्कारणमपि अन्यसमवायिकारणजन्यमिति यावदाद्यं कार्यं तदपि समवायिकारणजन्यमिति । तज्जनकाः 10 परमाणवः। तथा कार्यादल्पपरिमाणं समवायिकारणम्। तस्याप्यन्यदल्पपरिमाणमित्याचं कार्य निरतिशयाणुपरिमाणैरारब्धमिति ज्ञायते ।
अथ तदवयवानामपि पर्यवसानं नेष्यते नित्यकारणानभ्युपगमात् । तर्हि कार्यस्याकस्मिकस्यासम्भवात् तत्कारणेऽप्यन्यं समवायिकारणमित्यनवस्थायां कार्यद्रव्यस्याल्पतरादिभेदो न स्यात् । तथाहि, अल्पकारणारब्धमल्पं भूयःकारणारब्धं [ महद् ] इति । दृष्टम्। न च कार्यद्रव्यस्य नित्यकारणानभ्युपगमेनानवस्थायामेतदुपपद्यते, सर्वस्यापि अनन्तकारणजन्यत्वाविशेषादिति । यथा अनन्तकारणरारब्धा गोलकरूपा पृथिवी तथा घटादिकार्यमपीत्येकाकारताप्रसङ्गः । न च संख्याथलपरिमाणैरेकाकारतोपलव्धा घटादेभिन्नपरिमाणत्वात् भिन्नपलत्वाच्चेति । तथा हि किञ्चिद्धीनं पञ्चपलमधिकतरञ्च दशपलं समानकारणैरारब्धं बहुभिश्चेति वैचित्र्यम् । तच्चानवस्थायां न स्यात् ।
20 न च नित्यानभ्युपगमे प्रलयावस्थायां सर्वस्य कार्यद्रव्यस्य विनाशे पुनरुत्पत्तिभवेत्, अभावस्य समवायिकारणत्वाभावादिति । यथा च प्रलयावस्थायां सम्भवति तथा च वक्ष्यामो भूतपरीक्षायामिति । अतो नानवस्था व्यावर्त्तनीया। पटादिकारणकारणानामल्पतरादिभावेनावस्थितानामादिकार्यमभ्युपगन्तव्यम् ।
तदाद्यं कार्य समवायिकारणजन्यं कार्यत्वात्, यद् यत् कार्य तत्तत् समवायि- 25 कारणजन्यं यथा पटादि, तथा चैतत् कार्यम्, तस्मात् समवायिकारणजन्यमिति ।
For Private And Personal Use Only