________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६८
व्योमवती
5
10
न च कार्यत्वमभावेन व्यभिचरतोति वाच्यम्। स्वकारणसत्तासम्बन्धरूपत्वात् कार्यत्वस्य । तथा घटादिकारणकारणेष्वल्पतरादिभावः क्वचिद् विश्रान्तस्तरतमशब्दवाच्यत्वाद् महापरिमाणवत् । यत्र विश्रान्तास्ते परमाणव इति ।
अथ सावयवाः परमाणवो मूर्त्तत्वाद् घटवत्, षट्केन युगपत् सम्बद्ध्य मानत्वात्, तथा पूर्वभागोऽपरभाग इति दिगुपलक्षितर्देशेळपदिश्यमानत्वात्, सावयवकार्यारम्भकत्वाच्च तन्त्वादिदिति ।
सर्वमेतदाश्रयासिद्धं परमाणुसद्भावासिद्धः । अथेष्यत एव परमाणोः सद्भावः, तहि परमाणुसद्भावावेदकप्रमाणस्याभ्युपगमात् तद्विपरीतानुमान निविषयत्वादप्रमाणमिति । अभेद्या: परमाणवः परेणाभ्युपगमात् तस्यानिष्टापत्तिः क्रियत इति प्रसङ्गसाधनम् । तत्र यदि प्रमाणेनाभ्युपगताः परेण परमाणवस्तस्य प्रामाण्याभ्युपगमेऽनुत्थानं विपरीतानुमानस्य । अथाप्रमाणात्, एवं तहिं तस्याप्रमाणतया परमाणुसद्भावो न सिद्धयतीति किमनुमानोपन्यासेनाश्रयासिद्धताप्रसङ्गात् ।
तथा परमाणवः सावयवाश्चेति प्रतिज्ञावाक्ये पदयोविरोधः । तथाहि, परमाणु.. शब्दस्य निरतिशयाणुवाचित्वम्, सावयवत्वे वा अवयवापेक्षयाधिकपरिमाणत्वमिति विरोधः । न च समानाधिकपरिमाणत्वे समवायिकारणत्वमिति तदवयवाः परमाणवः । तेषामपि सावयवत्वे तदवयवाः तेषामपि सावयवत्वे तदवयवा इत्यनवस्थायामुक्तं दूषणमल्पतरादिभेदानुपपत्तिरिति ।
अथ मा भूदनवस्थेति निरवयवाः परमाणवोऽभ्युपगम्यन्ते प्रमाणतः, तहि तेन बाध्यमानत्वात् सावयवत्वानुमानमप्रमाणमिति ।
अथ निरवयवत्वादणूनां षट्केन योगो दिग्देशव्यपदेशश्च न स्यात् । न । अन्यथापि भावात् । तथाहि, संयोगस्याव्याप्यवृत्तितया पूर्वोत्तरादिदिग्व्यवस्थिते युगपत् सम्बन्धेऽपि न सावयवत्वम् । एवं पूर्वभागोऽपरभाग इति यद्यस्ति व्यपदेशः सोऽपि मुख्य बाधकोपपत्तेभक्तिो द्रष्टव्यः, अव्याप्यवृत्तिसंयोगाधारत्वसामान्यादिति ।
यच्च सावयवारम्भकत्वं तत्र [ ? तच्च ] यदि सहावयवैरारम्भकत्वं तदसिद्ध निरवयवत्वात् ।
अथ सावयवस्य सदावयवैत्तिष्यमाणस्य कार्यस्य जनकत्वम् ? तदसिद्धम्, परमाणुभ्यां व्यणुकारम्भात् । तथाहि, परमाणवो द्वयणुकान्यारभन्ते न स्वात्मानम्,
20
For Private And Personal Use Only