SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पृथिवीवैधर्म्यम् नित्यत्वात्, स्वात्मनि क्रियाविरोधाच्चेति । तन्तुदृष्टान्तोऽपि साधनविकलः । ते हि नावयवसहिताः कार्यमारभन्ते नाप्यवयवास हिता इति स्थितं कार्येण । लक्ष्यते नित्या पृथिवीति । अभेदवादिनिरासार्थश्च सा द्विविधेति वाक्यम् । तथाहि पृथिवी पृथिव्यन्तराद भिद्यमाना किं पृथिवीरूपतया भिद्यत उतापृथिवीरूपतयेति ? पृथिवीरूपतया पृथिव्यन्तराद भेदे तस्याः पृथिवीत्वप्रसङ्गः । अथापृथिवीरूपतया भिद्यते, या तर्हि भिद्यते सा पृथिवी न स्यात् । अथावान्तरविशेषसम्बन्धाद् भेनः ? तेऽपि यदि विशेषान्तरात्, अनवस्था । अथान्तरेण विशेषं विशेषा भिद्यन्ते, पृथिव्यास्तथाभावप्रसङ्ग इत्युक्तं द्वैतवादिना । भेदमाह * सा च द्विविधा, नित्या अनित्या च नित्या पृथिवी नीरूपतया अनित्यतो भिद्यतेऽनित्या तु नित्यातश्चेत्यवान्तरभेदादेव भेदः । अथ तेषामपि विशेषान्तराद भेदाभ्युपगमेऽनवस्थेत्युक्तम् । तदसत् । तत्राप्यसाधारणधर्मस्यासाधारणधर्माद भेदाभ्युपगमेsपि जातिगुणक्रियादिरूपतया षट्स्वेवान्तर्भावादनवस्थायामप्यदोषः । व्यावृत्तस्वरूपं पदार्थानां निर्विकल्पकज्ञाने प्रतिभासत इत्युक्तोत्तरमेतत् । यद् वा लक्षणेन लक्ष्यमाणस्यैकानेकत्वोपलब्धः संशये सति तन्निरासार्थ वाक्यम् । * सा तु द्विविधा इति । नैकत्वमाकाशस्येव [ इति ] विप्रतिपत्तिनिरासार्थम् । कार्यलक्षणाया धर्मान्तरं निरूपयति सा च स्थैर्याद्यवयवसन्निवेशविशिष्टा इति । स्थिराया भावः स्थैर्यम्, तदादिर्येषां मृदुत्वकठिनत्वादीनां ते स्थैर्यादयस्ते चावयवानां सन्निवेशश्च रचनाविशेषस्तैर्विशिष्टेति । गुरुत्व विधारकस्यासम्भवात् सर्वदा पतनं क्षितौ विद्यमानमपि पूर्वपरभागादवधारणान्नोपलभ्यत इति दिग्वाससां मतम्, तन्निरस्यते । स्थैर्यपदेन स्थैर्य स्थिरत्वमपात इति यावत् । यदि पुनः पातः स्याद गुरुत्वातिशयेन पातातिशयोपलब्धः क्षितेरतिशयेन पातादुपरि क्षिप्तस्य लोष्टादेभूमिसम्बन्धो न स्यात् । तथाहि, लोष्टस्य यावदुपरि गमनं पुनर्मन्दमागमनं तावत् क्षितः शीघ्रपातितया योजनशतादिव्यवधानं स्यादिति सम्बन्धाभावः । दृष्टस्तु सम्बन्ध इति ज्ञायते न पतनं क्षितेरिति । अत एव अपतनान्यथा-नुपपत्त्या ज्ञायते गुरुत्वविधारकं किञ्चिदस्तीति । अन्यथा हि गुरुत्वविधारकाभावे पातोऽवश्यं स्यादिति । स तु न भवतीति प्रतिबन्धोऽनुमीयते । अत्र हि गुरुणो द्रव्यस्य For Private And Personal Use Only ६९ 5 10 15 20 25
SR No.020943
Book TitleVyomvati Part 01
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy