________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-19.
व्योमवती
10
प्रतिबन्धकत्वे तस्यापि गुरुत्वयोगितया पातः स्यादिति वायोमहतः प्रतिबन्धकत्वम् । दृष्टं ह्यल्पोयसोऽपि वायोरुपरि पर्णादिव्यवस्थापने गुरुत्वविधारकत्वम्। पृथिवीप्रतिबन्धकस्त्वादिसृष्टावुत्पन्नोऽतिशयेन महान् वायुः पृथिवीमुदकादिसहितां तृणमिव धारयते।
तथा स्थैर्यम्, पृथिव्या अक्षणिकत्वमिति, क्षणिकत्वापाकरणार्थश्च स्थैर्यग्रहणम् । यथा च क्षणिकत्वं न सम्भवति तथा वक्ष्याम इति ।
येतु निरवयवामकार्याञ्च पृथिवीं मन्यन्ते तन्निरासार्थमवयवसन्निवेशविशिष्टेति । अवयवा हि भागास्ते क्षितावुपलभ्यन्ते तत्सन्निवेशो रचनाविशेषः प्रत्यक्ष इति । तथावयवसन्निवेशविशिष्टत्वाच्च कार्यत्वम् । तथाहि, पृथिवी कार्या, अवयवसन्निवेशविशिष्टत्वात्, यद् यदवयवसन्निवेशविशिष्टं तत्तत् कार्य दृष्टम् यथा घटादि, तथा चावयवसन्निवेशविशिष्टा पृथिवी, तस्मात् कार्येति ।
ननु कार्यत्वेऽयवयवसन्निवेशविशिष्टत्वानुपलब्धेर्बुद्धयादावित्यप्रयोजकत्वादप्रमाणमिति जैमिनीयाः। तदसत् । सपक्षकदेशवृत्तेर्गमकत्वाभ्युपगमात् । तथाहि, यद् यदवयवसन्निवेशवत् तत्तत् कार्यं दृष्टम् । न पुनर्यद् यत् कार्य तत्तदवयवसन्निवेशवदिति ब्रूमः । न च सपक्षैकदेशे वर्तमानस्यागमकत्वम्, धूमानुमानस्यागमकत्वप्रसङ्गात् । तथाहि, यदि धूमवत्त्वप्रयुक्तं स्यादग्निमत्त्वम् अन्तरेण धूमवत्त्वमग्निमत्त्वं न भवेदिति । अथ विषमव्याप्तिकत्वाद् यो यो धूमवान् स सोऽग्निमानित्येव व्याप्तिः, न पुनर्यो योऽग्निमान् स स धूमवानित्येवम्। तद्यवयवसन्निवेशवत्त्वस्यापि सपक्षकदेशे वर्तमानस्य नाप्रयोजकत्वम् ।
___ अथ अभूत्वा भावित्वस्यानुपलब्धैर्न क्षितेः कार्यत्वम् । किमत्र प्रत्यक्षेणानुपलब्धिः ? अथाभूत्वा भावित्वस्यानुमानेन वा? प्रत्यक्षेणानुपलब्धौ कस्यचिद् घटादौ नोपलभ्यत इत्यकार्यताप्रसङ्गः । अथ तत्राप्यभूत्वा भावित्वमवयवसन्निवेशत्वेन ज्ञायत इति क्षितावप्यवयवसन्निवेशवत्त्वेनैवाभूत्वा भावित्वं गम्यत इति समानम् । कार्यत्वेन च कतृ पूर्वकत्वं गम्यत इति वक्ष्यामो भूतपरीक्षायाम् ।
तथा कार्यलक्षणाया धर्मान्तरमाह * अपरजातिबहुत्वोपेता * इति । अपरा तु जातिः पृथिवीत्वापेक्षया घटत्वपटत्वादिरूपा, तस्या बहुत्वमपरिसंख्यातत्वम्, तदुपेता तयुक्तेति । न चैवं परमाणुलक्षणेऽतिवैलक्षण्यम् ।
20
For Private And Personal Use Only