________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पृथिवीवैधर्म्यम् तथा कार्यलक्षणायाः कार्य निरूपयति * शयनासनादि । भेदेनानेकमुपकारं करोतोति * अनेकोपकारकरी च * । यदेवार्थक्रियाकारि तदेव परमार्थसत्, अर्थक्रियाविरहो ह्यभावलक्षणमिति दर्शनस्य सत्तासम्बन्धेन सत्ताभ्युपगमेऽप्यभ्युपगमवादेन निरासार्थं चैतद् भवतीति ।
पृथिवीकार्यस्यानन्तत्वादशक्यं तत्परिज्ञानं मा भूदित्यवान्तरभेदेन वैधयं 5 वीप्सायां प्रतिज्ञातमाह * त्रिविधञ्चास्याः कार्यम् * इति । यथा ह्येवंभूतो धर्मः कार्यपरमाणुरूपतया नित्यानित्यभेदः, कार्यरूपायाञ्च स्थैर्यादिधर्मयोगोऽपरजातिबहुत्वञ्चास्याः पृथिव्यास्तथा त्रिविधञ्च कार्यमिति क्षितेः कार्यस्यानन्त्येऽपि शरीरादिरूपेण परस्परं व्यावृत्तात्मतया त्रिविधावस्थितस्य तत्त्वज्ञानविषयत्वम् । तथाहि, शरीरमिन्द्रियं विषय इति संज्ञा यस्य तत् “ शरीरेन्द्रियविषयसंज्ञकम् * सर्वं क्षितेः कार्यमिति ज्ञेयम्। 10
अन्ये त्वस्याः परमाणुलक्षणायास्त्रिविधं कार्य शरीरादिरूपमिति मन्यन्ते, व्यवहितस्यापि इदंशब्देन क्वचित् परामर्शादिति ।
तत्र शरीरस्येतरस्माद् वैधर्म्यमाह * शरीरं द्विविधम् इति। विशेषस्य सामान्यापेक्षित्वाद् विशेषाभिधानेऽवश्यं सामान्यलक्षणं विद्यमानमन्तेवासिनोह्यतामित्यूहनशक्तः संवर्धनाय न सामान्यलक्षणमवोचत् । तथाहि, शरीराभिधाने शरीरत्वं 15 शरीरव्यवहारकारणं ज्ञायत एव लक्षणमिति । तथेच्छानुविधायिक्रियाश्रयत्वं नर्ते शरीरात् सम्भवतीति शरीरवचनादाल्लभ्यत इति स्वशब्देनावचनम् । ग्रन्थादौ तु शरीरादिद्वारेणेत्यतिव्याप्त्यभावः ।
अथ शरीरत्वं सकलशरीरव्यापकत्वाद् भेदान्तराद् व्यावृत्तेश्च युक्तं लक्षणम् । न चैवम् इच्छानुविधायिक्रियाश्रयत्वम् । तस्य हि विपक्षाद् व्यावृत्तस्यापि सतः पक्षे 20 सर्वत्रासम्भवात् । तथाहि, मृताद्यवस्थायामेतन्न सम्भवतीत्यव्यापकम् । अथ जीवच्छरीरस्यैतल्लक्षणमिति चेत्, तन्न। सुप्तमूच्छिताद्यवस्थायामप्यनुपलब्धः। कथं त_दं लक्षणम् ? योग्यताश्रयणात् । तथाहि. शरीरमितरस्माद् भिद्यते साक्षादिच्छानुविधायिक्रियाश्रययोग्यत्वात् शरीरत्वसम्बन्धाच्च, यस्त्वेवं न भवति न चासौ साक्षादिच्छानुविधायिक्रियाश्रययोग्यः शरीरत्वयुक्तश्च यथेन्द्रियादिरिति ।
आमरणाद् यस्य पटुत्वापटुत्वाभ्यामिन्द्रियाणां पटुत्वापटुत्वे तच्छरीरमिति
For Private And Personal Use Only