SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७२ व्योमवती 10 केचित् । तथाहि. औषधोपयोगादपीन्द्रियेषु पटुत्वं सम्भवतीत्यामरणादिति पदम् । तथा चाव्याधितस्य शरीरपटुत्वेनामरणमिन्द्रियपटुत्वं दृष्टम् । व्याधितस्य त्वौषधोपयोगेन व्याध्युपरामे शरीरपटुत्वादेवेन्द्रियपटुत्वमिति पश्यामः । शरीरस्यापटुत्वादेवेन्द्रियेषु च काचकामलादिदोषाः सम्भवन्तीति तत्पटुत्वेन व्यावृत्त इति । पार्थिवन्तु शरीरं मांसाद्यवयवजन्यत्वे सत्यन्त्यावयवित्वादिति द्रष्टव्यम् । मांसाद्यवयवजन्यस्याप्पङ्गल्यादेः शरीरव्यवहाराविषयत्वादित्यन्त्यावयविपदम् । अन्त्यावयवित्वञ्चाशरीरस्यापि सम्भाव्यत इति मांसाद्यवयवजन्यपदम् । सामान्य लक्षणलक्षितस्य पाथिवशरीरस्य विशेषलक्षणार्थ विभाग: * शरीरं द्विविधम् * । केन रूपेण ? * योनिजमयोनिजञ्च । पूर्वनुद्दिष्टेऽपि योनिजेऽर्थप्रकाशस्य विवक्षितत्वादयोनिजमाह *तबायोनिजम् इति। योनिशब्दस्य कारणपर्यायत्वात् तन्निषेधे मा भूदाकस्मिकमित्याह अनपेक्षशुक्रशोणितम् - इति । योनिशब्द सामान्यशब्दोऽपि कारणविशेषे शुक्रशोणितलक्षणे विवक्षित इति तन्निषेधेन कारणान्तरं लभ्यते । शुक्रशोणितमनपेक्ष्य कारणान्तरादुत्पन्नमयोनिजम् । केषाम् ? * देवर्षीणां शरीरम् * इति । अयोनिजन्तु शरीरं देवर्षीणाम्, नत्वयोनिजमेव योनिजत्वस्यापि श्रवणात् । अन्ये तु व्यभिचारनिषेधार्थमेकस्य देवपदस्य लोपेन समासं कुर्वते । देवाश्च देवर्षयश्च देवर्षयस्तेषामिति । अत्र देवास्त्वष्टधा पिशाचादयः। तत्रापि कस्यचिद् योनिजत्वश्रवणेऽन्यद् विशेषणं न चिन्त्यम् । अथ केभ्यरतच्छरीरं भवतीत्याह ४ धर्मविशेषसहितेभ्योऽणुभ्यो जायते इति । तथाहि, तच्छरीरोत्सत्तावणवः समवायिकारणम्, तत्संयोगश्चासमवायिकारणम्, धर्मविशेषो निमित्तकारणमिति । कार्यकार्थसमवायश्च द्रव्योत्पत्ती संयोगस्येति ।। अथ देवर्षीणामयोनिज शरीरमस्तीत्यत्र किं प्रमाणम् ? आगमः । तथा च-- अयोनिजशरीराणि भवन्त्यभुतकर्मणाम् । योनिजान्येव मौद्गल्य ! न मातापितृजानि तु ।। [?] तथा ह्यद्भुतमुत्कृष्टं कर्म येषां ते तथोक्तास्तेषा पुत्कृष्टकर्मवशाद्योनिजानि शरीराणि भवन्ति । कारणमात्रनिषेधो मा भूदित्याह योनिजानि कारणजानि एव । कथं तहिः 15 For Private And Personal Use Only
SR No.020943
Book TitleVyomvati Part 01
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy