SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पृथिवीवैधर्म्यम् तेषामयोनिजत्वमित्याह न मातापितृजानीति । पितृमातृशब्देन शोणितशुक्रयोरभिधान नुपचारेणेति । तथोत्कृष्टं कर्म द्वेवा धर्मरूपमधर्मरूपञ्चेति । तत्र धर्मरूपाद् देवर्षीणामधर्मरूपाच्च क्षुद्रजन्तुयातनाशरीराणि। क्षुद्रजन्तवो यूकादयः। यातनाशरीराणि नारकीयशरीराणीति । तान्यधर्मविशेषसहितेभ्योऽणुभ्यो जायन्ते। अथ देवर्षीणां शरीराणि धर्मविशेषादुपजातान्यप्यनुमानेन योनिजानीति प्रतीयन्ते । तथाहि, देवर्षिशरीराणि योनिजानि शरीरत्वादस्मदादिशरीरवदिति। तच्चागमेन बाध्यमानत्वादप्रमाणमिति। तथा अनुमानेन चागमस्य' बाधाद् देवर्षिशरीराणां सद्भावासिद्धेनिजानुमानश्याश्रयासिद्धत्वादप्रमाणत्वप्रसङ्गः। न चानुमानस्थागमविषये तदुपघातेन प्रमाणता सम्भवति । युक्तञ्चागमानुग्राहकत्वम् । तथाहि देवर्षिशरोराण्ययोनिजानि, उत्कृष्टकारब्धत्वाच्छरभादिशरीरवत्। 30 उत्कृष्ट कर्माधर्मरूपं शरभादिशरीरे, देवर्षिशरीरे तु धर्मरूपमिति विशेषेऽप्युत्कृष्टकर्मारब्धत्वानुभयत्राविशिष्टमिति न साधनहीन नुदाहरणम् । योनिजमाह शुक्रशोणितसम्पातजम्। इति । शुक्रशोणितयोः सन्निपातात् सम्बन्धाज्जायत इति । शुक्रं पितुर्मातुः शोणितमिति । तयोः सन्निपातसमकालं भोक्तः कर्मवशादन्तःकरणसम्बन्धः। शुक्रशोणितयोः संयोगान्मज्जिताकारं द्रव्यमुत्पन्नं x xxx 15 तद [न] न्तरमान्तरेण तेजसा सम्बन्धाद्' वेगापेक्षादवयवे क्रिया, तदनन्तरं विभागाद् द्रव्यारम्भकसंयोगविनाशः, तद्विनाशात्तदारब्धस्य द्रव्यस्य विनाशः। पुनरन्यस्मादग्निसंयोगात् पूर्वरूपादयो व्यावर्त्तन्ते । अन्यस्माच्चापूर्वरूपाद्युत्पत्तिरेवमुत्पन्नपाकजेष्वणुष्वात्माणुसंयोगाददृष्टापेक्षादुत्पन्ना क्रिया विभागमारभते। तस्मात्पूर्वसंयोगव्यावृत्तादुत्तरसंयोगाद् द्वयणकोत्पत्तिरेवं द्वयगुकैस्त्र्यणुकोत्पत्तिरित्यादिक्रमेण शरीरोत्पत्तिरिति। 20 पुनर्मात्रा भुक्तं पीतं तन्मात्रयावतार्यते ततः पुनरान्तरान [लेन] च सम्बन्धादवयवे किया। पुनर्विभागात् संयोगविनाशस्ततो द्रव्यविनाशः । अन्यस्मादग्निसंयोगात् पूर्वरूपादिविनाशोऽन्यस्माच्च रक्ताद्युत्पत्तिः। ततो द्वयगुकादिप्रक्रमेण शरीरोत्पत्तिरिति न्यायः । शरीरेऽप्येतल्लक्षणं द्रष्टव्यं यावद्भस्मीभाव' इति । अन्यथा हि आहारोपयोगस्याश्रयोपचयाकारणत्वाद् वैययं स्यात् ।। न चारब्धशरीरा ये वावयवाः सहकारिप्राप्ती शरीरान्तरमारभन्ते पुनः सहकार्यन्तरप्राप्तावन्यच्छरीरमिति वाच्यम्। आरभ्यारम्भकवादप्रसङ्गात् । अथेष्यते १० For Private And Personal Use Only
SR No.020943
Book TitleVyomvati Part 01
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy