________________
Shri Mahavir Jain Aradhana Kendra
७४
35
15
20
www.kobatirth.org
25
व्योमवती
10
अथैकदेशतापरिहारार्थं परमाणुभ्यामन्यसहकारिभ्यामारब्धमेकस्मिन्नेव परमाणी वर्त्तते, पुनरन्यसहितैस्तैरारब्धमेकस्मिन्नेवेत्युच्यते । एवमप्येकस्मिन् द्रव्ये वर्त्तमानं कार्यद्रव्यं कारणविभागाभावादविनाशि स्यात् । तथा अद्रव्यं द्रव्यम्, अनेक- द्रव्यश्च द्रव्यमिति वचनव्याघातः । तथा हि न विद्यते जन्यं जनकञ्च द्रव्यमित्यद्रव्यम् । परमाणूनां जनकं नास्ति । आकाशादीनां जन्यं नापि जनकमित्यद्रव्यं नित्यद्रव्यमिति यावत् । अनेकद्रव्यन्त्वनेकद्रव्यं जनकमस्येत्यनेन स्वरूपेण । द्विविधमेव द्रव्यम्, द्रव्यं नित्यम् अनेकद्रव्यं जन्यं कार्यमिति । एकद्रव्यस्य च कार्यद्रव्यस्याभ्युपगमे व्याहृतमेतद् भवतीति ।
Acharya Shri Kailassagarsuri Gyanmandir
वैकं द्रव्यमारभ्य तस्मिन्नविनष्टे पुनर्द्रव्यान्तरारम्भकत्वम् । न युक्तमेतत् । सर्वस्यापि कार्यद्रव्यस्य परमाणुवृत्तित्वप्रसङ्गात् । तथाहि परमागुभ्यां द्व्यणुकमारब्धं तस्मिन्नविनष्टे ताभ्यामेवान्यपरमागुसहिताभ्यामन्यदारब्धम् । पुनरन्यपरमाणुसहित - रन्यदारभ्यत इति मूर्त्तानां समानदेशताप्रसङ्गः । तथाहि परमाणुभ्यामारब्धं परमाण्वोर्वर्त्तते पुनरन्यसहिताभ्यामारब्धं तयोस्तस्मिश्चेति मूर्त्तानामेकदेशत्वं स्यात् । तेषान्तु परस्परव्यतिरिक्ताधारसमवायित्वं दृष्टम् । यत्र ह्येकं मूर्त्तं समवेतं न तत्रान्यत् समवैति ।
न चैकस्य क्रमयौगपद्याभ्यामारम्भकत्वं न्याय्यम् । एकस्वरूपतया यावत्कर्त्तव्यं तावदेकस्मिन् काले कुर्यादशेषकार्योत्पत्तौ समर्थस्यान्यानपेक्षितत्वादिति । युगपदशेषकार्यं कृत्वा पुनरकरणे हेतुर्नास्तीति ।
अथ पूर्वमारब्धं कार्यद्रव्यमवेक्ष्यारभन्ते तर्हि पूर्वस्यारब्धकार्यस्यापि समवायित्वे कथमेकस्मिन्नेव द्रव्ये वर्त्तते ? पूर्वस्मिन् स्ववृत्तावनेकं दूषणमभ्यूह्यं समानासमानजातीययोरारम्भकत्वासम्भवादित्यादि । तथा सर्वस्थापि कार्यद्रव्यस्य परमाणुवृत्तितायामिह तन्तुषु पटः, इह वीरणेषु कट इत्यादि प्रयोगो न स्यात्, तन्त्वादेः समवायित्वाभावादिति । कार्यद्रव्यस्य विनाशे चान्तरकार्यस्यानुत्पन्नत्वादुपलम्भाभावः ।
अथ परमाणुभिः पूर्वपूर्वस्य कार्यस्याविनाशे सत्युत्तरोत्तरकार्यारम्भादनेकं कार्यद्रव्यमित्यन्त्यस्य विनाशे पूर्वपूर्वस्यावस्थानादनेककार्योपलम्भ इति चेत् । नन्वेवं तर्हि कपालसंयोगविनाशेऽपि घटस्याविनाशप्रसङ्गः । तदवयवतदवयवसंयोगविनाशे
For Private And Personal Use Only