________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पृथिवीवैधर्म्यम्
च तदवयवतदवयवानां तेषां समवायित्वाभावेन' तत्संयोगस्यासमवायित्वाभावादिति । समवायिकारणविनाशेनासमवायिकारणविनाशेन वा द्रव्यस्य विनाशदर्शनात् ।
अथ परमाणावुत्पन्ना क्रिया संयोगविनाशद्वारेण द्रव्यविनाशिकेष्यते। तत्र यद्याद्यद्रव्यारम्भके परमाणावुत्पन्ना क्रिया विभागात् संयोगविनाशे सति द्रव्यं विनाशयेत् तहि पूर्वपूर्वसंयोगस्योत्तरोत्तरसंयोगसहकारितया शेषकार्योत्पत्तावसमवायि- 5 कारणत्वाभ्युपगमात् तद्विनाशेऽवश्यं सकलकार्यविनाश इति न किञ्चित् कार्यमुपलभ्येत ।
अथान्त्यपरमाणुसंयोगस्य पूर्वपूर्वपरमाणुसंयोगोपचितस्यैककार्योत्पत्तावसमवायिकारणत्वमिति। तद्विनाशे तदारब्धस्यैव विनाशादवान्तरकार्यस्योपलम्भ एवेति चेत् । नन्वेवमपि परमाणुसंयोगस्य विनाशादुपजातो घटादिनाशोऽस्मदादेरतीन्द्रियः स्यात् । यथा ह्यापाकनिक्षिप्तेषु घटेष्वग्निसंयोगाद् विनाशः परमाणुक्रियाद्वारेणेति। 10 प्रत्यक्षश्च कपालसंयोगविनाशाद् घटस्य विनाशस्तेन ज्ञायते कपालानां समवायित्वमित्यलमतिविस्तरेण।
अतः शरीरे प्रतिक्षणमाहारोपयोगानुपयोगे सत्युपचयापचयप्रपञ्चदर्शनात् पूर्वद्रव्यनिमित्तादुत्पन्नपाकजयगुकादिप्रक्रमेण चोत्पत्तिर्वाच्येति । यथा च परमाणुषु पाको द्वयणुकादिप्रक्रमेण चोत्पत्तिस्तथा वक्ष्यामः पाकजोत्पत्ताविति ।। ___इदानीं शुक्रशोणितसन्निपातजस्याप्यवान्तरर्वधर्म्यमाह । तद् द्विविधं जरायुमण्डजञ्च * इति । तथाहि, शरीरं गर्भे प्रतिक्षणं पाकजोत्पत्तिन्यायेनोत्पद्यमानं निष्क्रमणकाले जरायुणा वेष्टितत्वाज्जरायुजम् । अण्डजं मातृशरीरान्निःसृतमपि किञ्चित्कालमण्डोदरे पाकजोत्पत्तिन्यायेनावेष्टितमुत्पद्यत इत्यण्डजम्। केषां जरायुजमित्याह * मानुषपशुमृगाणाम् इति। मानुषाश्च पशवश्च मृगाश्चेति। 20 पशुशब्देन संगृहीतानामपि मृगशब्देनाभिधानम् अरण्यजत्वादिति ।
अन्ये त्वेकस्य मानुषशब्दस्य लोपेन समासं कुर्वते । मानुषाश्च मानुषपशवश्च मृगाश्चेति । अत्र मानुषशब्देनाभिहितानां पशुशब्देनाभिधानेन तदेव दूषणमिति प्रयोजनञ्च चिन्त्यम् । तथा मृगशब्देन सर्वपशूनामभिधानासम्भवादव्याप्तिरिति । .
अण्डजं केषामित्याह * पक्षिसरीसृपाणाम् * इति । पक्षिणश्च सरीसृपाश्चेति 25 पक्षिसरीसृपाः, तेषामिति । सरीसृपाः कुटिलं सर्पन्तीति सदियो रूढिवशाच्चेति ।
For Private And Personal Use Only