SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्योमवती शरीरस्य' शरीरात् समानजातीयाच्च वैधर्नामभिवाय इन्द्रियस्य वैधर्म्यनिरूपणार्थमाह इन्द्रियं गन्धव्यञ्जकम् इति । तथेन्द्रियाणां नानात्वात् तद्व्यापि सामान्यलक्षणमाल्लभ्यत एव । करणत्वातीन्द्रियत्वद्रव्यत्वनियताधिष्ठानवृत्तित्वे सत्यपरोक्षज्ञानजनकत्वादिति । अपरोक्षज्ञानजनकत्वं कतरात्मनः संभवतीति तन्निरासाय करणत्वग्रहणम् । अनिन्द्रियस्य प्रदीपादेः करणत्वे सत्यपरोक्षज्ञानजनकत्वं दृष्टमिति तन्निराकरणार्थमतीन्द्रियपदम्। तथेन्द्रियार्थसन्निकर्षः करणत्वातीन्द्रियत्वे सत्यपरोक्षज्ञानजनक इति द्रव्यत्वपदम् । तथा दिक्कालयोः सर्वोत्पत्तिमतां निमित्तत्वात् करणत्वातीन्द्रियत्वद्रव्यत्वे सत्यपरोक्षज्ञानजनकत्वमस्तीति नियताधिष्ठानवृत्तित्वपदम् । दिक्कालयोस्तु व्यापकत्वेन सकलकार्यजनकत्वेन नियताधिष्ठानासम्भवात् । अथात्मापि व्यापकत्वादनेन विशेषणेन व्यवच्छिन्न इति व्यर्थ करणत्वपदम् । न। व्यापकस्यापि भोक्तृत्वेन शरीराधिष्ठानत्वात् । अत इन्द्रियमितरस्माद् भिद्यते' करणत्वातीन्द्रियत्वद्रव्यत्वनियताधिष्ठानवृत्तित्वे सत्यपरोक्षज्ञानजनकत्वात्, यस्तु न भिद्यते न चासावुक्तसाधनो यथा शरीरादिरिति । सामान्यलक्षणलक्षितस्य समानजातीयाद भेदमाह इन्द्रियं घ्राणम् ५ इन्द्रिय18 सामान्यलक्षणलक्षितत्वे सति गन्धव्यञ्जकत्वादितरेभ्यो भिद्यते। तथेन्द्रियं गन्ध व्यञ्जकमिति कार्येण सद्भावं दर्शयति । तथाहि, गन्धोपलब्धिः, करणकार्या, क्रियात्वात् या या क्रिया सा सा करणकार्या दृष्टा यथा च्छिदिक्रिया, तथा चेयं क्रिया, तस्मात् करणकार्येति । यच्च गन्धोपलब्धिसम्पादकं करणं तद् व्राणम्, तच्च पार्थिवम्, रूपरसगन्धस्पर्शेषु 20 मध्ये नियमेन गन्धव्यञ्जकत्वात्, यद् यद् रूपादिषु मध्ये नियमेन गन्धव्यञ्जक तत्तत् पार्थिवं दृष्टं यथा कस्तूरिकादिद्रव्यम्, तथा च प्राणं रूपादिषु मध्ये नियमेन गन्धप्रकाशकम, तस्मात् पार्थिवमिति। ननु नियमेन गन्धव्यञ्जकत्वमसिद्धं गन्धत्वगुणत्वसत्तादेरपि व्यञ्जकत्वादित्यतो रूपरसगन्धस्पर्शेषु मध्य इति विशेषणम् । अथ पार्थिवत्वाविशेषाद् घ्राणं गन्धस्येव रूपादिप्रकाशकमपि स्याद् रूपादेरपि 23 पार्थिवगुणत्वात्, संयुक्तसमवायस्य च सम्बन्धस्याविशेषाद्, अन्यस्य' च विशेषहेतोर भावाद् इत्यत आह * जलाधनभिभूतैः पार्थिवावयवैरारब्धं घ्राणम्' * । अतो गन्धस्यैव प्रकाशकमिति । कथमेतज्ज्ञायते किञ्चिज्जलादिना सम्पृक्तैरनभिभूतैः पार्थिवावयवै For Private And Personal Use Only
SR No.020943
Book TitleVyomvati Part 01
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy