________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पृथिवीवैधय॑म्
-७७
रारम्भो व्राणस्येति ? कार्यनियमात् । तथा प्राणस्य व्यापाराद् गन्धस्यैवोपलम्भो न रूपादेरिति दृष्टम् । न च कारण नियम विना कार्यनियमः सम्भवतीति किञ्चिज्जलाद्यसम्पृक्तैरुत्पादो ज्ञायते चादृष्टविशेषाद् गन्धोपलब्धेः सम्पादकात् । अन्यथा हि ब्राणव्यापाराद् गन्धस्यैवोपलब्धिर्न भवेत् । सा च दृष्टा । अतो ज्ञायतेऽन्यस्य कारणत्वासम्भवाद् विशिष्टोत्पादो निमित्तम् । स चादृष्टवशात् । अदृष्टस्य च व्यवस्था- 5 कारणत्वादिति । अभिप्रेतञ्चैतत् सूत्रकर्तुरिति ।
"भूयस्वाद् गन्धवत्त्वाच्च गन्धज्ञाने प्रकृतिः पृथिवी' (वै. सू. ८१२१५) इति वचनाद् गन्धो ज्ञायतेऽनेनेति गन्धज्ञानं प्राणम्। तस्मिन्नुत्पाद्य प्रकृतिः कारणं पृथिवी भूयस्त्वानिमित्तादिति ।
यथा भूयसां पार्थिवावयवानां गन्धोपलब्धिसम्पादकादृष्टविशेषोपगृहीतानां 10 जलादिना चातिरस्कृतवपुषां प्राणजनकत्वं नियमेन' गन्धोपलब्धेर्रायते, भूयसाञ्च पार्थिवावयवानां कारणत्वाभिधानादल्लीयसामपि जलाधवयवानामकारणत्वं लब्धम् । अत एव तेषां पार्थिवावयवानामभिभावकत्वम् । तथा न परं विशिष्टादृष्टोपग्रहे सतीषज्जलावयवादिसम्पृक्तैरारम्भाद् गन्धस्यैव प्रकाशकत्वं गन्धवत्त्वाच्चेति । पार्थिवत्वाद् प्राणस्य रूपादिमत्त्वमपि सम्भवतीति गन्यवत्त्वमुत्कर्षो विवक्षितः। 15 स्वगतगन्धोत्कर्षाच्च रूपादिषु च मध्ये संयुक्तसमवायाविशेषेऽपि गन्धस्यैव प्रकाशकमिति ।
___ यदि वा काचिदेव पृथिवी गन्धोपलव्धेः कारणम्, न सर्वेति विशेषहेतु स्तीत्युक्ते वाक्यं संबध्यते "भूयस्त्वाद् गन्धवत्त्वाच्च गन्धज्ञाने प्रकृतिरिति' (वै० सू.० ८.१२।५ ) । गन्धे ज्ञप्तिः ज्ञानं गन्धविषयकज्ञानं तस्मिन् प्रकृतिः कारणं पृथिवी भूयस्त्वाद् व्याकृताद् 20 गन्धवत्त्वाच्चेति ।
अन्यो वार्थः । गन्धवत्त्वान्नियमेन गन्धोपलव्वे: कारणम् । विशेषहेतु स्तीत्युक्ते वाक्यं संबध्यं घ्राणम्, तच्च गन्धवत् पार्थिवत्वाविशेषात्। वाणं कुत इत्याह भूयस्त्वादुक्तरूपादिति ।
अन्ये तु जलाद्यसम्पृक्तः शुद्धैः पार्थिवावयवैरारम्भो विशिष्टादृष्टापेक्षेः भूयस्त्व- 25 मिति मन्यन्ते। तथा च भाष्यम् “जलाधनभिभूतैरसम्पृक्तः केवलैः पार्थिवावयवैरारब्धं
For Private And Personal Use Only