SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्योमवती घ्राणमिति । अत्र चेषज्जलादिसम्पर्के प्यनभिभवस्य सम्भवादसंपृक्तैरिति विशेषणं न बुध्यामहे । न च भूयसां भावो भूयस्त्वमित्युक्तेऽन्येषामत्यन्तासम्भव उपलभ्यत इत्यलम्। इन्द्रियं सर्वप्राणिनां गन्धव्यञ्जकमिति सामान्यविशेषात्मतयाभिधाय विषयs स्वरूपनिरूपणार्थमाह विषयस्तु द्वयगुकादिप्रक्रमेणारब्धः । इति । ननु द्वधगुकादि. प्रक्रमेणारम्भः शरीरस्येन्द्रियस्य चास्तीत्यतिव्यापीदं विषयलक्षणमिति। नैतदेवम् । शरीरेन्द्रिययोर्लक्षणाभिधानेन विषयाद् भेदसिद्धौ तदन्यत्वे सतीति विशेषणलाभात् । तथाहि, शरीरेन्द्रियान्यत्वे सति द्वयणुकादिप्रक्रमेणारब्धत्वाद् विषयस्तस्य हि विषयभावोपकारकत्वात् । विषयस्तूपभोग्य इन्द्रियग्राह्यो वास्मदादेः । अथ त्र्यणुकं व्यणुकादिप्रक्रमेणोत्पन्नं शरीरेन्द्रियान्यत्वे सत्यस्मदादीन्द्रिय ग्राह्यञ्च न भवति ( इति ), अव्यापीदं विषयलक्षणमिति । द्वयणुकादिप्रक्रमेणारब्ध इति विशेषणेन व्यवच्छेदात् । तथाहि, व्यगुकमादिर्यस्य प्रक्रमस्येत्यादिग्रहण त्र्यणुकस्याप्यवरोधकमिति । असौ द्वयणुकादिः स चासौ प्रक्रमश्चेति तेनारब्धो विषयो ह्यणुकत्र्यणुकादिप्रक्रमेणारब्ध इति यावत् । त्र्यणुकन्तु व्यणुकरारब्धं द्वयणुकादिप्रक्रमेणेति । व्यणुकानान्त्वनियमेनारम्भकत्वं द्वयोर्बहूनाञ्चेति । तदारब्धस्येन्द्रियविषयता सम्भाव्यत इति। 10 विषयस्य च सामान्य लक्षणलक्षितस्याप्यवान्तरभेदेनानन्त्यात् संग्रहमाहत्रिविधः * । केन रूपेण ? * मृत्पाषाणस्थावरलक्षणः ॐ इति ! मृच्च पाषाणश्च स्थावराश्चेति लक्षणं स्वभावो यस्यासौ तथोक्तः । स्वभावस्तु मृदि मृत्त्वं पाषाणेषु 20 पाषाणत्वमिति । ननु मृदादिभेदेन त्रैविध्यमनुपपन्नम् इष्टकाविषयस्यासंग्रहादित्याशङ्कयाह तत्र प्राकाराश्चेष्टकाश्च तदादयो घटादयस्ते च मृद्विकारा इति मृच्छब्देन संगृहीताः । विकारस्तु विशिष्टरचनापन्नाया मृदोऽग्निसम्बन्धात् परमाणुक्रियाद्वारेण पूर्वद्रव्यविनाशे श्यामादिनिवृत्तावुत्पन्नपाकजैरारम्भादित्युच्यन्ते। तैरुत्पन्नपाकजरारब्धेऽपि मृत्त्वं सामान्यं न निवर्त्तत इति मृच्छब्देनाभिधीयन्त इति । पाषाणत्वसामान्ययोगिनो दर्शयति * पाषाणा उपलमणिवज्रादयः इति । तेषाञ्च स्वरूपं तच्छास्त्रनसिद्धलोक For Private And Personal Use Only
SR No.020943
Book TitleVyomvati Part 01
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy