________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
वैधर्म्यम्
व्यवहारतोsवगन्तव्यम् । स्थावरत्वजातिसम्बन्धिनो दर्शयति * स्थावरास्तृणीषधिवृक्षगुल्मलता वितानवनस्पतय इति । तृणमुभयवादिप्रसिद्धम् । ओषधयः फलपाकान्ता धान्यादयः । वृक्षाश्च वृक्षत्वजातिसम्बन्धिनोऽशोकादयः । एवं गुल्मलता वितानादिविशेषोऽवगन्तव्यः । तदुक्तम्,
ओषध्यः फलपाकान्ता लतागुल्माश्च वीरुधः । फली वनस्पतिर्ज्ञेयो वृक्षाः
Acharya Shri Kailassagarsuri Gyanmandir
पुष्पफलोपगाः ॥ ( ? ) इति ।
पूर्वं हि पृथिव्यादीनां नवानामपि समवायिकारणत्वं गुणत्वं क्षित्युदकात्मनां चतुर्दशगुणवत्त्वञ्चेत्युक्तम् । तत्र केषामुत्पत्ती समवायिकारणत्वम्, कैर्गुणैर्गुणवत्त्वम्,
For Private And Personal Use Only
७९
अप्वाभिसम्बन्धादापः । रूपरसस्पर्शद्रवत्वस्नेह संख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वगुरुत्वसंस्कारवत्यश्च । एते च पूर्ववत् सिद्धाः । शुक्लमधुरशीता एव रूपरसस्पर्शाः । स्नेहोऽम्भस्येव सांसिद्धिकं द्रवत्वश्च । तास्तु पूर्ववद् द्विविधा नित्यानित्यभावात् । कार्य पुनस्त्रिविधं शरीरेन्द्रियविषयसंज्ञकम् । शरीरमयोनिजमेव धर्मविशेष- 10 सहितेभ्य आध्येभ्यः परमाणुभ्यो जायते वरुणलोके । पार्थिवावयवोपष्टम्भादुपभोगसमर्थम् । इन्द्रियं सर्वप्राणिनां रसोपलम्भकमन्यावयवानभिभूतैर्जलावयवैरारब्धं रसनम् । विषयस्तु सरित्समुद्र हिमकरकादिरिति ।
इदानीमुद्दशवत उदकस्य लक्षणपरीक्षार्थमाह * अप्त्वाभिसम्बन्धात् इत्यादिप्रकरणम् । अप्त्वेनाभिसम्बन्धोऽप्त्वेनाभिलक्षितः सम्बन्धः समवायो लक्षणमिति । तथा ह्याप इतरस्माद् भिद्यन्तेऽप्त्वाभिसम्बन्धात्, ये तु न भिद्यन्ते न ते अप्वाभिसम्बद्धाः यथा क्षित्यादयः, न च तथापः तस्माद् भिद्यन्त इति । व्यवहारो वा साध्यते, विवादास्पदीभूतद्रव्यमाप ( द्रव्यं ) इत्येवं व्यवहत्तंव्यमप्त्वाभिसम्बन्धात् । ये त्वाप इत्येवं न व्यवह्रियन्ते न तेऽप्त्वाभिसम्बद्धाः । यथा क्षित्यादयः । न तथेदम्, तस्मादाप इत्येवं व्यवहर्त्तव्यमिति । शेषञ्च लक्षणस्याक्षेपप्रतिसमाधानं पृथिव्यधिकारे ज्ञेयम् । एवं शब्दार्थनिरूपणाय शक्त रतीन्द्रियत्वप्रतिषेधार्थञ्चापत्वाभिम्बन्धादिति वाक्यं पूर्ववद्योजनीयम् ।
3
15
20