SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्योमवती के वा चतुर्दश गुणाः, किं वा गुणात्मकं लक्षणमित्याह रूपरसस्पर्शस्नेहसांसिद्धिकद्रवत्वादिसंस्कारपर्यन्ता विद्यन्ते यासां तास्तद्वत्य इति । * एते च पूर्ववत् ४ इति गुणविनिवेशाधिकारे सिद्धाः । तथाहि, रूपरसस्पर्शवत्य आपो द्रवाः स्निग्धाश्च (वै० सू० २।१।२) इति पञ्चविशेषणाः सिद्धाः। ते चासाधारणत्वादितरस्माद् भेदका इत्यसाधारणताप्रतिपादनार्थमाह * शुक्लमधुरशीता एव रूपरसस्पर्शाः *। सूत्रेण सामान्यशब्देनाप्यर्थादभिहिता इति। तथाहि, शुक्लमेव हि रूपमभास्वरमप्सु, मधुर एव रसः, शीत एव स्पर्श इति । तथा स्नेहोऽम्भस्येव सांसिद्धिकञ्च द्रवत्वमम्भस्येवेत्यसाधारणत्वमेषाम्। सांसिद्धिकमित्यग्निसंयोगानपेक्षम्, न त्वाकस्मिकम्, कार्ये कारणगुणपूर्वकं परमाणुषु च नित्यमिति । संख्यादयस्तु पूर्ववद् व्याख्येयाः । एवं लक्षणेन लक्ष्यमाणस्यैकानेकत्वोपलव्धौ संशये सति तन्निराकरणार्थम् अपत्वसामान्यस्य च भेदाधिष्ठानत्वादिति तत्समर्थनार्थम्, अद्वैतवादी चोदकस्योदकान्तराद् भेदं न प्रत्येति तन्निराकरणाथं सर्वस्य कार्यद्रव्यस्य विनाशे प्रलयावस्थायाञ्च सर्गादौ पुनरुत्पत्तिर्न स्यादभावाद् भावोत्पत्तेरयोगादिति बीजप्रतिपादनार्थञ्च * तास्तु पूर्ववद् द्विविधाः इति वाक्यं व्याख्येयम् । यथा हि पृथिवी परमाणुस्वभावा नित्या कार्यलक्षणा त्वनित्या तद्वदापोऽपीत्याह * नित्यानित्यभावात् * इति । नित्यत्वादनित्यत्वाच्चेत्यनेन रूपेण द्वैविध्यमित्यवान्तरभेदेन वैधां दर्शयति । कार्यन्तु सत्यप्यानन्त्ये त्रिविधमिति ज्ञेयम् । केन रूपेणेत्याह शरीरमिन्द्रियं विषय इति संज्ञा यस्य तत्तथोक्तम् । शरीरस्य च सामान्यलक्षणं पूर्वोक्तमित्युत्पत्तिरेवोच्यते शरीरमयोनिजमेव इति । न शुक्रशोणितसन्निपातजमिति । तच्च wधर्मविशेषसहितेभ्य आष्येभ्यः परमाणुभ्यो जायते वरुणलोके * प्रसिद्धमागमादिति । अथाप्यं शरीरं द्रवत्वाधिकरणतया न विशिष्टोपभोगाय कल्प्यत इत्याह ४ पार्थिवावयवोपष्टम्भाच्चोपभोगसमर्थम् * इति। तथा ह्याप्यावयवाः समवायिकारणम्, तत्संयोगाश्चासमवायिकारणम्, पार्थिवावयवाश्च 25 निमित्तकारणमिति । एवं तैजसा वायवीयाश्चेति । For Private And Personal Use Only
SR No.020943
Book TitleVyomvati Part 01
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy