SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जलवैधय॑म् ननु चायुक्तमेतत्, शरीरस्य पाञ्चभौतिकत्व श्रवणात् । तथाहि, “गन्धक्लेदपाकव्यूहावकाशदानेभ्यः पाञ्चभौतिकम्” ( न्या. सू. ३।।३१ ) इति । गन्धोपलब्धेः क्षितेः कारणत्वम्, क्लेदाच्चापाम्, पाकात्तेजसः, व्यूहाच्च रचनाविशेषाद् वायोरवकाशदातृत्वेन चाकाशस्येति पाञ्चभौतिकत्वमिति । तच्चासत् । विभिन्नजातीयानामेकद्रव्योत्पत्ती समवायित्वस्या दर्शनात् । न च विभिन्न जातीयावयवेषु । समवेतं शरीरमुपलभ्यते। यदि च पञ्चानां समवायित्वं स्यादेवञ्च सत्येभ्यः कः पार्थिवोऽन्यस्त्वाप्यस्तैजसवायवीयास्तेषु समवेतं शरीरमुपलभ्येत, न चैवम्। तथा विचित्रगुणाधिकरणत्वात् समवाधिकारणानां कार्येऽपि तद्वैचित्र्यं स्यात् । एवञ्च सति पार्थिवावयवे शुक्लादीनामन्यतमं रूपाम्, पाकजस्पर्शः स्यात् । आप्यावयवे च शुक्लमेव रूपम्, शीत एव स्पर्शः स्यात् । तैजसे भास्वरं रूप तुष्ण एव स्पर्शः, वायवीये चानुष्णा- 10 शीतत्वे सत्यपाकजस्पर्शः स्यादिति। विचित्रावयवैरारब्धत्वाच्छरीरं वैचित्र्यमुपलभ्येत । न तूपलभ्यते । तस्मादयुक्तमेतत् । अथावयवस्याप्यनेकभूतैरारम्भः। तथाहि, पार्थिवाग्याभ्यां परमाणुभ्यां द्वयणुकम्, पुनराप्यतेजसाभ्याम्, तथा तैजसवायवीयाभ्यामारब्धमिति। एवं वायुशब्दतन्मात्राभ्याम् । एतानि दूयणुकान्युत्पन्नानि त्र्यणुकादिप्रक्रमेण शरीरमारभन्त इत्यभ्युपगमे 15 च रूपादीनामुत्पत्तिर्न भवेत् । तथाहि “गुणाश्च गुणान्तरमारभन्ते' (वै. सू. १११।१० ) इति सूत्रेणानेकस्य गुणस्य गुणारभ्भकत्वमुक्तम्। एवञ्च सति पार्थिवाप्याभ्यामणुभ्यामारब्धे व्यणुके गन्धोत्पत्तिर्न स्यात् । तस्य ह्येकवेनाजनकत्वात् । एवमाप्यतेजसाभ्यामारब्धे द्वयणुके रसो न स्यात् । तथा तैजसवायवीयाभ्यामारब्धे द्वयणुके रूपाभावः । तथा वायुशब्दतन्मात्राभ्यामारब्धे स्पर्शाभाव इति । तदेवं गन्धरसरूप- 20 स्पर्शानां द्वयणुकेष्वभावे तत्कार्यकार्येष्वप्यभावादिति शरीरेऽप्यभावप्रसङ्गः । एतच्च दृयात्मकादिष्वपि समानम्। तथाहि, पार्थिवाप्याभ्यामारब्धे शरीरे गन्धानुत्पत्तिः । पार्थिवतैजसाभ्यामारब्धे गन्धरसानुत्पत्तिः । पार्थिववायवीयाभ्यामारब्ध शरीरे गन्धरसरूपानुत्पत्तिः । एवं पार्थिवाकाशाभ्यामारब्धे चतुर्णामनुत्पत्तिरिति । न च द्रव्यारम्भकत्वमाकाशस्यामूर्तत्वादिति । मूर्तस्य हि स्पर्शवतो द्रव्यस्य 5 द्रव्यारम्भकत्वदर्शनात् । एवमण्वादेरपीतरसहकारित्वेनारम्भे दूषणमूह्यम् । ११ For Private And Personal Use Only
SR No.020943
Book TitleVyomvati Part 01
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy