________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्योमवती
तथा त्रयाणां पृथिव्यादीनां चतुर्णाञ्चारम्भ इति पञ्चानाञ्च कारणत्वमिष्यत इति पाञ्चभौतिकत्वमिष्टम् । समवायित्वञ्चैकस्यैवेति । पार्थिवे हि शरीरे पार्थिवस्यान्यस्मिन्नन्यस्येति । पाथिवे च क्लेदोपलम्भः संयुक्तसमवायेन । पाकस्त्वान्तरानलसंयोगात्, स च नोपलभ्यत एवेन्द्रियेण शरीरे सर्वदा। केवलन्तु गुणान्तरप्रादुर्भावात् पूर्वशरीरनिवृत्तावुत्पन्नपाकजैरारम्भः कल्प्यते। व्यूहस्त्ववयवरचनाविशेषः। स तु वायुकार्यो न भवत्येव । अवकाशदातृत्वञ्च मूर्तद्रव्याभावस्यौवेत्याकाशस्य न लिङ्ग
मित्यलम।
.
इन्द्रियस्वरूपनिरूपणार्थमाह ४ इन्द्रियञ्च रसव्यञ्जकम्' - इति । रसोपलब्धिः करणकार्या, क्रियात्वात्, या या क्रिया सा सा करणकार्या यथा छिदिक्रिया, तथा चेयं
क्रिया, तस्मात् करणकार्येति । यच्च रसोपलब्धिसम्पादकं करणं तदाप्यम्, तद्रसनम्, 10 रूपरसादिषु मध्ये नियमेन रसव्यञ्जकत्वात् । यद् यद् रूपादिषु मध्ये नियमेन रस
व्यञ्जकं तत्तदाप्यं दृष्टं यथा दन्तान्तर्गतोदकम्, तथा चैतत्, तस्मादाप्यमिति । रसनव्यापाराद् रसत्वादीनामपि ग्रहणस्य सम्भवादसम्भवित्वं स्यादिति रूपादिषु मध्ये इति पदम् । तथाहि, शुष्ककण्ठस्य मोदकादिषु रसोपलब्धि!पलब्धा । उदक
सद्भावे तु रूपादिषु मध्ये रसस्यैकस्योपलब्धिरिति सपक्षे सत्त्वम् । अनाप्ये चैतन्न 15 सम्भवतीति विपक्षाद् व्यावृत्तिरिति । तदेतदसाधारणत्वादितरस्माद् भेदकमपीति ज्ञेयम् ।
अथ कस्मात् किञ्चिदेवाप्यं द्रव्यं रूपादिषु मध्ये नियमेन रसव्यञ्जकमिन्द्रियञ्चेत्याह * अन्यावयवानभिभूतैः, ईषत्सम्पृक्तैरपि जलावयवैरारब्धं रसनम् * इति रसस्यैव व्यञ्जकमिति ।
अन्ये तु अन्यावयवानभिभूतैरसंपृक्तैः शुद्धर्जलावयवैरारब्धम् इति ब्रुवते । 20 भूयस्त्वाद्रसवत्त्वाच्चोदकं रसजाने प्रकृतिः [ वै. सू. ? ] इति। अस्य च सत्रस्येदं
भाष्यम्
भूयस्त्वादिति । भयसामाग्यावयवानां रसोपलब्धिप्रापकादृष्टापेक्षाणां संयोगे सतीपदितरावयवसम्पर्के च विशेषोत्पाद उपदिश्यते। अत एव अन्यावयवाभिभवानुपपत्तिः । जलावयवानां भूयस्वादितरेषाञ्च अल्पत्वादिति। रसवत्त्वञ्च रसनेन्द्रियस्य रसोत्कर्षः। सामान्यशब्देनाप्यर्थोऽनुक्त इति रसो ज्ञायतेऽनेनेति रसज्ञानमिन्द्रियम् ।
For Private And Personal Use Only