SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तेजोवैधय॑म् तस्मिन्नुत्पाद्ये प्रकृतिः कारण उदकं भूयस्त्वाद् व्याकृतानिमित्तात्। तस्मादेतदेवेन्द्रियम्, रूपादिषु मध्ये नियमेन रसप्रकाशकञ्चेति। यद् वा कार्यनियमः कारणनियम विना न घटत इति नियमेन रसनेन्द्रियाद् रसोपलब्धेरेवोत्पत्तिः कुत इत्याह भूयस्त्वाद्रसवत्त्वाच्च निमित्ताद् रसे जप्तिः ज्ञानम्, तत्र प्रकृतिः कारणं रसनेन्द्रियमिति । तथाहि, संयुक्तसमवायाविशेषेऽपि नियमेन दु रसोपलम्भान्यथानुपपत्त्या ज्ञायते नियमहेतुः। स चान्यस्यासम्भवाद् रसोत्कर्षो भूयस्त्वञ्चेति कल्प्यते। यद् वा रसोपलम्भान्यथानुपपत्त्यान्यस्यासम्भवाज् ज्ञायते, रसोत्कर्षे किं निमित्तमित्याह भूयस्त्वमिति। तथा ह्याप्यत्वाविशेषेऽपि रसस्यैवोत्कर्षों न रूपादेरिति भवस्त्वं विशिष्टोत्लादे निमित्तम् । स चादृष्टवशात् । अदृष्टस्य च व्यवस्था- 10 हेतुत्वादिति । विषयं निरूपयति । शरीरेन्द्रियव्यतिरिक्तो द्वयणुकादिप्रक्रमेणारब्धो विषयः । तस्य हि विषयभावेनैवोपकारित्वादिति । स तु सरित्समुद्रहिमकरकादिरिति । तेजस्त्वाभिसम्बन्धात्तेजः। रूपस्पर्शसंख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वद्रवत्वसंस्कारवत् ! पूर्ववदेषां सिद्धिः । शुक्लं भास्वरश्च , रूपम् । उष्ण एव स्पर्शः । नैमित्तिकञ्च द्रवत्वम् । संख्यादयश्च पूर्ववत् । ___तदपि द्विविधम् अणुकार्यभावात् । कार्य शरीरादित्रयम् । शरीरमयोनिजमेव धर्मविशेषसहितेभ्योऽणुभ्यो जायते आदित्यलोके । पार्थिवावयवोपष्टम्भाचोपभोगसमर्थम् । इन्द्रियं सर्वप्राणिनां रूपव्यञ्जकमन्यावयवानभिभूतैस्तेजोऽवयवैरारब्धं चक्षुः। विषयलक्षणं चतुर्विधं । भौमं दिव्यमुदर्यमाकरजश्च । तत्र भौमं काष्ठेन्धनप्रभवमूवंज्वलनस्वभावं पचनस्वेदनादिसमर्थम् । दिव्यमविन्धनं सौरविद्युदादि । भुक्तस्याहारस्य रसादिभावेन परिणामसमर्थमुदयम् । आकरजं सुवर्णादि । तत्र संयुक्तसमवायाद् रसाधुपलब्धिरिति । For Private And Personal Use Only
SR No.020943
Book TitleVyomvati Part 01
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy