SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ८४ व्योमवती इदानी मुद्देशवतस्तेजो लक्षण परीक्षार्थमाह तेजस्त्वाभिसम्बन्धात् इत्यादि प्रकरणम् । तेजस्त्वेनाभिसम्बन्धस्तेजस्त्वोपलक्षितसमवायो लक्षणमिति । तथाहि, तेजः, इतरस्माद् भिद्यते, तेजस्त्वाभिसम्बन्धात् । ये तु न भिद्यन्ते न ते तेजस्त्वाभिसम्बन्धाः यथा क्षित्यादयः, न च तथा तेजः, तस्मादितरस्माद् भिद्यत इति । व्यवहारो वा 5 साध्यते । तथा तेजः शब्दस्य सामान्यवानर्थं इति ज्ञापनार्थमतीन्द्रियशक्तिप्रतिषेधार्थञ्च पूर्ववद् व्याख्येयम् । 15 20 www.kobatirth.org 25 Acharya Shri Kailassagarsuri Gyanmandir एवं समवायित्वगुणवत्त्वप्रतिपादनार्थञ्च रूपादिवाक्यम् । तथाहि, रूपस्पर्शादयः संस्कारपर्यन्ता विद्यन्ते यस्य तत् तद्वदिति । * पूर्ववदेषां सिद्धिः इति । यथा पृथिव्यधिकारे रूपादयो विशेषगुणा गुणविनिवेशाधिकारे सिद्धास्तद्वदिहापीति । तथा “तेजोरूपस्पर्शवद्” (वै. सू. २1१1३) इति सूत्रेण विशेषगुणावुक्तौ । तौ चासाधारणत्वाद इतरस्माद् भेदकावित्यसाधारणतामाह शुक्लं भास्वरश्च रूपम् प्रकाशनशीलमिति । * उष्ण एव स्पर्शः * न स्पर्शान्तरमिति । नैमित्तिकश्च द्रवत्वम् इति । * संख्यादयश्च पूर्ववत् इति । "त्रपुसीस लोहरजतसुवर्णानां तैजसानामग्निसंयोगाद् द्रवत्वमद्भिः सामान्यम्” ( वै. सु. २/१७ ) इति सूत्रेण द्रवत्वमुक्तम् । लक्षणेन लक्ष्यमाणस्यैकानेकत्वोपलब्धौ संशये सति तन्निरासाय अद्वैतवादिनश्च प्रतिषेधाय, सामान्य समर्थनाय, बीजसद्भावप्रतिपादनाय च तदपि द्विविधम् इति पूर्ववद् वाक्यं व्याख्येयम् । तथाहि, न केवलं पृथिव्युदकञ्च द्विविधम्, किं तर्हि ? एतदपीति । तेजोऽपि हि द्विविधमिति । केन रूपेणेत्याह * अणुकार्यभावात् इति । परमाणुस्वभावं नित्यं कार्यस्वभावश्वानित्यम् । कार्यस्य चानन्त्यादपरिज्ञानं मा भूदित्याह कार्य शरीरादित्रयम् इति । शरीरमिन्द्रियं विषयमित्यनेन रूपेण ज्ञेयमित्यवान्तरवैधर्म्यम् । शरीरस्य सामान्यलक्षणमुक्तमित्युत्पत्तिरेवोच्यते शरीरमयोनिजमेव इति । अयोनिजं हि शुक्रशोणितसन्निपातानपेक्षम् । धर्मविशेषसहितेभ्योऽणुभ्यः इति । तैजसाः परमाणवः समवायिकारणम्, तत्संयोगाश्चासमवायिकारणम्, पार्थिवाद्यवयवाश्च निमित्तकारणमिति । तच्चादित्यलोके सिद्धमागमात् । अथ तेजोऽवयविन: क्षणिकतायां तदारब्धं विशिष्टोपभोगाजनकमित्याह पार्थिवावयवोपष्टम्भाच्चोपभोगसमर्थम् * इति । तच्च शरीरं सामान्यलक्षणलक्षितत्वे सति तेजोऽवयवैरारब्धत्वादितरस्माद् भिद्यत इति विशेषलक्षणं ज्ञेयम् । For Private And Personal Use Only
SR No.020943
Book TitleVyomvati Part 01
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy